________________
विहारविधिः -श्लो० १४०॥]
[७४७ ___ गीतार्थसम्बन्धित्वाद् गीतार्थो गीतार्थयुक्तो यो विहारः स जातकल्पोऽभिधीयते, व्यक्ततया निष्पत्तेः, अगीतः खलु अगीतार्थतायुक्त पुनर्भवेदजातोऽजातकल्पः, अव्यक्तत्वेनाजातत्वात् , तथा द्वितीयगाथावर्तिनः 'उउबद्धे' इतिपदस्येह सम्बन्धात् ऋतुबद्धे -अवर्षासु पणगं ति -पञ्चकं साधूनां, साधुपञ्चकपरिमाण इत्यर्थः, समाप्तकल्पो नाम विहारो भवति, तदूनकस्तस्मात् पञ्चकान्यूनो द्वित्रिचतुर्णां साधूनामित्यर्थः, कल्पो भवत्यसमाप्तोऽपरिपूर्णसहायत्वात् । वर्षासु -वर्षाकाले पुनः सप्त साधवः साधुसप्तकपरिमाण इत्यर्थः, समाप्तकल्पः, तदूनकः -तेभ्यः सप्तभ्यो हीन इतर: -असमाप्तकल्पः । यच्च वर्षास सप्तानां विहारवर्णनं तत किल वर्षास तेषां ग्लानत्वादिसम्भवे सहायस्यान्यत आगमनासम्भवादल्पसहायता मा भूदितिहेतोः । ततश्चासमाप्ताजातानाम् असमाप्तकल्पाजातकल्पवताम् , ओघेन -उत्सर्गेण न किञ्चित् क्षेत्रतद्गतशिष्यभक्तपानवस्त्रपात्रादिकमागमप्रसिद्धमाभाव्यं भवति । यथा चाभाव्यं भवति तथाह -
"हवइ समत्ते कप्पे, कयम्मि अन्नोन्नसंगयाणं पि ।
गीअजुआणाहव्वं, जहसंगारं दुवेण्हं पि" ॥४॥[पञ्च./१३३१] । भवति समाप्ते कल्पे कृते सत्याभाव्यमन्योऽन्यसङ्गतानामपि विजातीयकुलाद्यपेक्षया गीतार्थयुक्तानामाभाव्यं 'यथासंगारं' यथासङ्केतं द्वयोरपि गीतार्थाऽगीतार्थयोरपीति स्वलब्धिमतो विहारविधिः प्रदर्शितः । एवं साध्व्यपि शेषसाध्वीभ्यो गुणाधिका दीक्षाश्रुतादिना परिणता च स्वलब्धियोग्या भवति । यतः पञ्चवस्तुके -
"वइणी वि गुणगणेणं, जा अहिया होइ सेसवइणीणं ।
दिक्खासुआइणा परिणया य जोग्गा सलद्धीए"॥१॥[पञ्च./१३३२ ] त्ति । अत्र केचन वदन्ति -साध्वीनां स्वलब्धिर्न भवति, यतस्तासां प्रायो वस्त्रादि सर्वं गुरुपरीक्षितमेव स्यात् , तथा लघुत्वदोषाश्च ता नियमेन भवन्तीति, तन्न, शिष्यादौ भिक्षादौ उचिते विषये तासां स्वलब्धेरवश्यं भावात् , परिणते वयसि चैतस्याचरणात् , पात्रे च लघुत्वदोषाणामप्यभावात् । यदुक्तं सपरपक्षं पञ्चवस्तुके
"केई ण होइ सलद्धी, वइणीणं गुरुपरिक्खिअं तासिं । जं सव्वमेव पायं, लहुसगदोसा य णिअमेणं ॥१॥[पञ्च./१३३३]
१. P.C. प्रवचनसारोद्धारवृत्तिः । पूर्णोऽस मु० ॥ २. P.C. I [गीतार्था] गी मु० ॥ ३. P.C. I पञ्चवस्तुके च । शेषव्रतव्रतीभ्यः साध्वीभ्य-इति पञ्चवस्तुकवृत्तौ । सेसवइगीणं-मु० ॥ ४. P.C. I ता(सां)-मु० ॥
D:\new/d-3.pm5\3rd proof