________________
[ धर्मसंग्रहः - तृतीयोऽधिकारः
दीक्षावयोभ्यां परिणतः संप्राप्तश्चिरप्रव्रजितः -पूर्णपर्यायश्चेत्यर्थः, ‘धृतिमान्' संयमे सुस्थः ‘अनुवर्त्तकः' सर्वमनोऽनुवृत्तिकर्ता 'पीठादिज्ञाता' कल्पपीठनिर्युक्तिज्ञाता ‘पिण्डैषणादिवित्’ प्रतीतार्थः ईदृशः, 'स्वलब्धियोग्यः ' स्वस्य - स्वकीया लब्धि: - प्राप्तिस्तस्या योग्यः–अर्हो भवति, पूर्वं गुरुपरीक्षिता वस्त्रादिलब्धिरासीत्, इदानीं स्वयं वस्त्रादि परीक्षितुं योग्यो जात इति भावः ॥१३९॥
-
अस्यैव विहारविधिमाह -
७४६ ]
एषोऽपि गुरुणा सार्द्धं, विहरेद् वा पृथग्गुरोः । तद्दत्तार्हपरिवारोऽन्यथा वा पूर्णकल्पभाक् ॥ १४०॥
'एषोऽपि' स्वलब्धिमान् आस्तां गुरुलब्धिपरतन्त्र इत्यपिशब्दार्थः 'गुरुणा' स्वलब्ध्यनुज्ञाचार्येण 'सार्द्धम्' अमा 'विहरेत्' ग्रामाद्ग्रामान्तरं गच्छेत्, अत्रापवादमाह - 'गुरो:' पूर्वोक्ताद् वा इति पक्षान्तरे 'पृथग्' भिन्नतया विहरेत् कीदृशः सन् ? इत्याह - ‘तद्दत्तार्हपरिवारः' तेन – गुरुणा दत्तः - अप्पितोऽर्हो – योग्यः परिवारः – परिच्छदो यस्य स तथा, तत्रापवादमाह - ' अन्यथा' इति, गुरूदत्तयोग्यपरिवाराभावे 'वा' इति पक्षान्तरे 'पूर्णकल्पभाक्' पूर्णं - समाप्तं कल्पं - व्यवस्थाभेदं भजतीति, तथा समाप्तकल्पेन विहरतीत्यर्थः । समाप्तकल्पश्च कल्पगाथाभ्योऽवसेयस्ताश्चेमाः -
-
"
" जाओ अ अजाओ अ, दुविहो कप्पो उ होइ णायव्वो । एक्क्कोऽवि यदुविहो, समत्तकप्पो अ असमत्तो" ॥१॥
'S'
[ व्य.भा.उ. ४।१५, पञ्च. १३२८ ] जातोऽजातश्चेति द्विविधः कल्पः - समाचारो भवति ज्ञातव्यः, तत्र जाता - निष्पन्नाः श्रुतसम्पदुपेततया लब्धात्मलाभाः साधवः - तदव्यतिरेकात् कल्पोऽपि जात उच्यते, एतद्विपरीतः पुनरजातः, एकैकोऽपि द्विविधः - समाप्तकल्पोऽसमाप्तकल्पश्च, तत्र समाप्तकल्पो नाम परिपूर्णसहायः, तद्विपरीतोऽसमाप्तकल्पः । एतानेव चतुरो जातादीन् व्याख्यानयति
-
" गीअत्थ जायकप्पो, अगीअओ खलु भवे अजाओ अ ।
पणगं समत्तकप्पो, तदूणगो होइ असमत्तो" ॥१॥ [ व्य.भा.४।१६ ] "उउबद्धे वासासु अ, सत्त समत्तो तदूणगो इअरो ।
असमत्ताजायाणं, ओहेण ण होइ आहव्वं ॥२॥ [पञ्च.१३२९-३० ] १. L.P.C. | वस्त्रादि-मु० नास्ति ॥ २. तुला - प्रवचनसारोद्धारवृत्तिः भा० २ प० २८ ।।
D:\new/d-3.pm5\3rd proof