________________
आचार्ये कालगते पदप्रदानविधिः -श्लो० १३८॥]
[७४३ किन्त्विच्छामि गच्छं पालयितुम्'इति एवमुक्ते क्षुभ्यन्तो वदन्ति ये दुःसमुत्कृष्टं तव गणधरपदं तव रुचितमेतत्परं त्वस्माकं न रोचत इति, तेषां चत्वारो गुरुकाः, अनिर्मापिते गणधरत्वं निक्षिपत्यपि त एव, अगीतार्थत्वेन गच्छसाधवो यत् सेविष्यन्ते तदपि चाधिकम् , निर्मापिते च तत्र निक्षिपतो न छेदः परिहारो वा सप्तरात्रं वा तपः, ये तु स्वगच्छसाधवस्तं स्वगच्छसाधुं प्रातीछिकं च पूर्वस्थापितं यथाकल्पेन कृतिकर्मादिना नाभ्युपतिष्ठन्ते तेषामपि छेदः परिहारो वा सप्तरात्रं वा तप इति संक्षेपः ।
नन्वेवं गुरुदत्ताया दिशो गीतार्थैरपहरणे गुर्वाज्ञाभङ्गः इति चेत् , मैवम् , प्रकृते भावानुज्ञाया एव ग्रहणात् , भावमपेक्ष्यैव गुरुणा दिग्दानात् , तदभावे गुर्वाज्ञाया एव तत्राभावात् , किञ्च -दुष्टस्य सतस्त्यागः कर्त्तव्यः एषापि हन्त गुर्वाज्ञैवेति दुर्व्यवहारे दिगनपहार एव गुर्वाज्ञाभङ्गः स्यात् , यदपि च महानिशीथे कुगुरोः सङ्घबाह्यकरणमुक्तं तदपि कथं दिगपहारं विना घटते, अतो गुरोर्भगवतश्चैकैवेयमाज्ञेति स्थितम् । कुगुरोः सङ्घबाह्यकरणालापकस्त्वनुपदमेव व्यक्तीभविष्यति, शुद्धगीतार्थश्च स ज्ञेयः, य उत्पन्ने कार्ये न मायी न मृषावादी नाशुचिर्न पापश्रुतोपजीवी च, तादृशदोषप्रत्ययं हि तस्याचार्यत्वादिदानं यावज्जीवमेव सूत्रे निषिद्धम् । तथा च व्यवहारस्थं सूत्रसप्तकम् -
"भिक्खू अ बहुस्सुए बज्झागमे बहुसु आगाढागाढेसु कारणेसु माई मुसावाई असुई पावसुओजीवी जावज्जीवाए तस्स तप्पत्तिअं णो कप्पइ आयरिअत्तं वा जाव गणावच्छेइअत्तं वा उद्दिसित्तए । एवं गणावच्छेइए वि, आयरिअउवज्झाए वि । बहवे भिक्खुणो बहवे गणावच्छेड्आ बहवे आयरिअउवज्झाया बहुस्सुआ बज्झागमा बहुसु आगाढागाढेसु कारणेसु माई मुसावाई असुई पावसुओवजीवी जावज्जीवं एतेसिं तप्पत्ति णो कप्पइ आयरिअत्तं वा ( उवज्झायत्तं वा) पवित्तित्तं वा गणहरत्तं वा गणावच्छेइअत्तं वा उद्दिसित्तए" [व्य.३।२३-२९ ] त्ति ।
अत्र प्रत्येकमेकत्वे सूत्रत्रयं प्रथमं, बहुत्वे द्वितीयं सूत्रत्रयं, सप्तमं च सूत्रं बहुभिक्षुबहुगणावच्छेदकबह्वाचार्यविषयं, तत्र 'शतमवध्यं सहस्रमदण्ड्यम्'इत्यादिलौकिकव्यवहारवबहूनां प्रायश्चित्तं न स्यादितिव्यावृत्त्यर्थ बहुत्वविशिष्टसूत्रग्रहणमिति वदन्ति । तथा गीतार्थत्वगुणवत्सारणागुणोऽप्यवश्यमपेक्षितो यतो गुणवान् गीतार्थोऽप्याचार्यो यदि गच्छसारणां न करोति दुष्टशिष्यांश्च न त्यजति तदा तस्य महाप्रायश्चित्तम् ।
१. उवज्झायत्तं वा-L.P.C. नास्ति ।
D:\new/d-3.pm53rd proof