SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ७४२ ] स्थविरानुमतिरेव दिग्दाने प्रधानं कारणमिति सिद्धम्। अत्र चेदं सूत्रं व्यवहारचतुर्थोद्देशके - [ धर्मसंग्रहः - तृतीयोऽधिकारः "आयरिअउवज्झाए गिलायमाणे अण्णयरं वइज्जा -अज्जो ! मए णं कालगयंसि समाणंसि अयं समुक्कसिअव्वे, से अ समुक्कसणारिहे समुक्कसिअव्वे, से अ मुक्सार समुक्कसिअव्वे, अत्थि अ इत्थ केइ अण्णे समुक्कसणारिह से समुक्कसिअव्वे, णत्थि अ इत्थ केइ समुक्कसणारिहे से चेव समुक्कसिअव्वे, तंसि च णं समुक्कट्टंसि परो वइज्जा 'दुस्समुक्कट्ठे अज्जो ! णिक्खिवाहि' तस्स णं णिक्खिवमाणस्स अणिक्खिवमाणस्स वा णत्थि केइ छेए वा परिहारिए वा, जे ते साहम्मि अहाकप्पेणं अब्भुट्ठेति तेसिं तप्पत्तिए छेए वा परिहारे वा०" [ व्य.४।१३ ] अस्यार्थः –आचार्य उपाध्यायो वा धातुक्षोभादिना ग्लायन्नन्यतरमुपाध्यायप्रवर्त्तिगणावच्छेदकभिक्षूणामन्यतमं पूर्वं कुतश्चिद्धेतोरसमुत्कर्षितवान्, सापेक्षः सन् वदेद् आर्य ! मयि कालगते सत्ययं 'समुत्कर्षयितव्यः' आचार्यपदे स्थापनीयः स च परीक्ष्य समुत्कर्षणार्हो भवति ततः समुत्कर्षयितव्यः, अथ यदि गारवेच्छाऽसमाधिमरणभीत्युत्पादननिमित्तकगणदानानुमतिकत्वभिन्नदेशीयत्वपरुषभाषणादिभिर्हेतुभिः प्रागनुमतोऽपि गुरोर्न समुत्कर्षयितव्य इति ज्ञातः स न समुत्कर्षयितव्यः, यश्च पूर्वं समीहितः सत्यपि मधुरत्वेऽसंग्रहशीलो वाचकत्वनिष्पादकत्वोभयगुणविकलश्च सोऽपि न स्थाप्यते, यदि वाऽऽचार्याणां सर्वेऽपि शिष्या अनिर्माता इति प्रातीच्छिकस्तैरन्तसमये स्थाप्यते, मम शिष्ये निर्मापिते त्वया गणधरपदं निक्षेप्तव्यमित्यभ्युपगमकारणपूर्वकम्, यो वा निर्मातः स्वशिष्योऽनिर्माते बहुभागे शिष्यान्तरे तत्र निर्मापिते उक्ताभ्युपगमकारणपूर्वकं स्थाप्यते, एतयोर्द्वयोः प्रतिज्ञासमाप्तौ गणधरपदमनिक्षिपतश्छेदः परिहारः सप्तरात्रं वा तप इति प्रासंगिकं प्रतिपत्तव्यम्, अथ य आचार्येण समुत्कर्षयितव्यतयोक्तः, स च कालगते आचार्येऽभ्युद्यतविहारमभ्युद्यतमरणं वा प्रतिपत्तुमुत्सहते, तदाऽस्ति चेदत्र गच्छेऽन्यः कश्चित्समुत्कर्षणार्हः, स समुत्कर्षयितव्यः, नास्ति चेदन्यः समुत्कर्षणार्हस्तदा गीतार्थैः यावद् गीतार्थनिर्माणं गणधरपदं पालयत यूयं, तस्मिन्निर्मापिते च सति भवतां यत् प्रतिभासते तत् कुरुत' इत्यभ्यर्थनापुरःसरं स एव समुत्कर्षयितव्यः, एवमुक्ते गणधरपदं प्रतिपद्य कश्चिदेको निर्मापितः पश्चात् तस्य चित्तं जातम् 'अभ्युद्यतविहाराद् गच्छपरिपालनं विपुलतरनिर्जराद्वारम्' इत्थं व्यवसिते तत्र गीतार्था ब्रुवते - ' निक्षिप गणधरपदं' स प्राह - 'न निक्षिपामि, १. L. P. C. । प्रधानमिति - मु० ॥ D:\new/d-3.pm5\3rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy