________________
पदयोग्यस्य गुणाः -श्लो० १३८॥]
[७४१ पुव्वं छम्मासेहिं, परिहारेणं च आसि सोही उ। सुद्धतवेणं निव्विइआइ इण्हि विसोही अ॥१३॥ [व्य.सू.उ.३ भा.गा.१८०]
'परिहारेणं'ति परिहारतपसा । "किह पुण एवं सोही, जह पुव्विल्लासु पच्चिमासुं वा। पुक्खरणीसुं वत्थाइआणि सुज्झंति तह सोही ॥१४॥ [व्य.सू.उ.३ भा.गा.१८१] एवं आयरिआई, चउदसपुव्वादि आसि पुट्विं तु । इण्हि जुग्गणुरूवा, आयरिआ हुंति णायव्वा" ॥१५॥[व्य.सू.उ.३ भा.गा.१८२] कालोचित्तगुणेष्वपि गीतार्थत्वगुणः सारकत्वगुणश्च तावदवश्यमपेक्षितः । यत उक्तम् - "कालाइवसा इक्काइगुणविहीणोऽवि सुद्धगीअत्थो। ठाविज्जइ सूरिपए, उज्जुत्तो सारणाइसुं ॥१॥[प्राचीनसामा.द्वार११] त्ति ।
युक्तं चैतद्यतो गीतार्थाभ्युपगमानभ्युपगमाभ्यामेव गुरुणा दत्ताया अदत्ताया वापि आचार्यत्वादिरूपाया दिशोऽवस्थानाऽनवस्थाने सूत्रे व्यवस्थिते । तथा च व्यवहारभाष्यम् - "आसुक्कारोवरए, अठाविए गणहरे इमा मेरा। चिलिमिलिहत्थाणुन्ना, परिभवसुत्तत्थहावणया" ॥१॥ [ व्य.सू.उ. ४।१७२]
अस्या अर्थः -आशुकारेण -शूलादिनोपरत:-कालगतः आशुकारोपरतस्तस्मिन् सत्याचार्येऽस्थापितेऽन्यस्मिन् गणधरे इयं -वक्ष्यमाणा मेरा -मर्यादा, तामेवाह - 'चिलिमिलि'इत्यादि आशुकारोपरत आचार्यो यवनिकान्तरितः प्रच्छन्नः कार्यो, वक्तव्यं आचार्याणामतीवाशुभं शरीरं वाचापि वक्तुं न शक्नुवन्तीति, ततो यो गणधरपदार्हस्तं यवनिकाया बहिः स्थापयित्वा सूरयो भण्यन्ते 'को गणधरः स्थाप्यताम्' ? एवं चोक्त्वा यवनिकान्तरस्था गीतार्था आचार्यहस्तं उपर्युन्मुखं कृत्वा स्थाप्यमानगणधराभिमुखं दर्शयन्ति, वदन्ति च 'गणधरत्वमेतस्यानुज्ञातम् , परं वाचा न वक्तुं शक्नुवन्ति' एषा हस्तानुज्ञा, तत एतस्योपरि वासा निक्षिप्यन्ते, स्थापित एष गणधर इति, पश्चात् कालगता आचार्या इति प्रकाश्यते । 'परिभवसुत्तत्थहावणया' इति ततो येऽभिनवस्थापिताचार्यस्य परिभवोत्पादनबुद्ध्याऽऽचार्योचितं विनयं न कुर्वन्ति तेषां सूत्रमर्थं वा हापयति, न ददातीत्यर्थः । अत्र हि परमार्थतो गुर्वदत्तापि स्थविरैरेव दिग् दत्तेति । अथ गुरुदत्तापि नाङ्गीक्रियते गीतार्थैः तद्यथा -एष आचार्यपदे स्थापनीय इत्याचार्यस्यैव वचने दोषगुणौ ज्ञात्वा स्थविराणां आचार्यपदस्थापने सूत्रे भजना श्रूयते, तथा च
D:\new/d-3.pm5\3rd proof