________________
७३६]
[धर्मसंग्रहः-तृतीयोऽधिकारः _ 'णिरुद्धवासपरिआए' इत्यस्य निरुद्धो –विनाशितो वर्षपर्यायो यस्य स तथाऽपरिपूर्णत्रिवर्षपर्याय इत्यर्थः । पर्याप्तं विस्तरेण । तथा प्रिय –इष्टो दृढः -अक्षोभ्यो धर्मो यः स तथा एतदुभयविशेषणनिष्पन्नचतुर्भङ्ग्यां तृतीयभङ्गवर्ती, तथा सर्वाननुवर्तयतीति सर्वानुवर्तकः -सर्वमनोऽनुवृत्तिकर्ता तथा 'सज्जातिकुलसम्पन्नः' सती –शोभने जातिकुले -मातृपितृपक्षौ ताभ्यां सम्पन्नः -संयुक्तः, तथा 'गम्भीरो' महाशयः तथा 'लब्धिमान्' उपकरणादिलब्धियुक्तः, तथा संग्रहोपग्रहपरः' 'संग्रह' उपदेशादिना शिष्यादेरुपष्टम्भदानम् उपग्रहश्च वस्त्रादिना तयोः 'परः' तत्परः, एतेन द्रव्यभावाभ्यामुपष्टम्भ उक्तः । 'सचोभयलोकहितः' अत्र चतुर्भङ्गी –यथा यः साधूनां वस्त्रपात्रभक्तादिकं पूरयति न पुनः संयमे सीदतः सारयति स इहलोके हितो न परलोके १। यः पुनः संयमयोगेषु प्रमाद्यतां सारणां करोति न वस्त्रान्नादिकं प्रयच्छति स परलोके हितो नेह लोके २। यो वस्त्रपात्रभक्तपानादि सर्वमपि साधूनां पूरयति संयमयोगेषु च सीदतः सारयति स इहलोके परलोके च हितो ३। यस्तु न वस्त्रपात्रादिकं पूरयति न च संयमयोगे सीदतः सारयति स नेहलोके हितो नापि परलोके ।। अत्रास्तां चतुर्थभङ्गवर्ती, आद्यभङ्गवर्त्यपि त्याज्यः । यदुक्तं व्यवहारभाष्ये
"जीहाए वि लिहतो, ण भद्दओ जस्स सारणा णत्थि ।
दंडेण वि ताडतो, स भद्दओ सारणा जत्थ" ॥१॥[व्य.भा.१।३८२] इति । तथा 'श्रुते' प्रवचने 'रागो' भक्तिर्यस्य स श्रुतरागी तथा 'कृता' अभ्यस्ता क्रिया' प्रतिलेखनादिका येन स कृतक्रियः, ‘एवंविधः' एवंप्रकारो 'गणस्वामी' गणनायको 'जिनसत्तमैः' जिनेन्द्रैः 'भणितः' उक्तः ॥१३६।। इत्युक्ता गुणिमुखेन गणधरगुणाः, अथ प्रसङ्गतः प्रवर्तिनीगुणानाह -
गीतार्था कुलजाऽभ्यस्तसत्क्रिया पारिणामिकी ।
गम्भीरोभयतोवृद्धा, स्मृताऽऽाऽपि प्रवर्तिनी ॥१३७॥ 'गीतार्था' श्रुतविभागमधिकृत्य तथा 'कुलजा' विशिष्टकुलजाता तथा अभ्यस्ता सत्क्रिया यया सा तथा, तथा 'पारिणामिकी' उत्सर्गापवादविषयज्ञा तथा 'गम्भीरा' अलब्धमध्या तथा 'उभयतो' दीक्षावयोभ्यां 'वृद्धा' स्थविरा चिरदीक्षिता परिणतेत्यर्थः,
१. L.P. | सर्वोभ मु० ॥ २. जत्थ-इति व्यवहारभाष्ये । यत्र नाम संयमयोगेषु-इति तत्र वृत्तौ ॥
D:\new/d-3.pm53rd proof