________________
गणानुज्ञास्वरूपम् - श्लो० १९३४ / १३५ / १३६॥]
संग्रहोपग्रहपरः, श्रुतरागी कृतक्रियः ।
एवंविधो गणस्वामी, भणितो जिनसत्तमैः ॥१३६॥ युग्मम् । सूत्रार्थौ जानातीति सूत्रार्थज्ञः - सूत्रार्थपरिनिष्ठितः, सूत्रार्थपरिज्ञाननिष्पन्नचतुर्भङ्ग्यां तृतीयभङ्गवर्तीत्यर्थः, शेषगुणानामनुगमेऽपि छेदार्थानामपारगत्वे शास्त्रे भावव्यवहारित्वाभावप्रतिपादनात्, तथा च व्यवहारभाष्यदशमोद्देशकः -
[ ७३५
" जो सुअमहिज्जइ बहुं, सुत्तत्थं निउणं ण याणाइ ।
कप्पे ववहारंमि अ, सो न पमाणं सुअहराणं ॥ १ ॥ [ व्य. भा. १०/६०४]
जो सुअमहिज्ज बहु, सुत्तत्थं निउणं विआणाइ ।
कप्पे ववहारंमि अ, सो उ पमाणं सुअहराणं ॥२॥ [ व्य.भा.१०/६०५ ]
कप्पस्स उ णिज्जुत्ति, ववहारस्सेव परमणिउणस्स ।
जो अत्थओ ण याणइ ववहारी सो णऽणुण्णाओ ॥ ३॥ [ व्य. भा. १०/६०६ ] कप्पस्स उ णिज्जुत्ति, ववहारस्सेव परमणिउणस्स ।
जो अत्थओ विआणइ, ववहारी सो अणुण्णाओ " ॥४॥[ व्य.भा.१०/६०७] अव्यवहारिणश्च द्रव्यभावाभ्यामपरिच्छदत्वाद् व्यवहारतृतीयोद्देशके गणानुज्ञाया निषेध उक्तः । तथा च तत्पाठः -
" भिक्खू इच्छिज्जा गणं धारित्तए भगवं च से अपलिच्छन्ने, एवं से णो कप्पइ गणं धारित्तए” [ व्यवहारसूत्रे ३।१ ]त्ति ।
द्रव्यपरिच्छदः सचित्तादिस्त्रिविधः, तत्र सचित्तः शिष्यादिरचित्त उपधिर्मिश्रश्चोभयसमवायादिति, भावपरिच्छदश्च दर्शनं ज्ञानं चारित्रं तपो विनयश्चेति, एतदुभयपरिच्छदोपेत एव गणधारी सुव्यवहारी भवति, तस्मात् सूत्रार्थवित्त्वमेव मुख्यो गुण इति फलितम् । गणधारणेच्छापि निर्जरार्थं परिच्छन्नस्यैव युक्ता, न त्वपरिच्छन्नस्य, अत एवापरिपूर्णोचिताध्ययनेऽपरिपूर्णत्रिवर्षपर्याये च शिष्ये शेषश्रुताध्ययनमिच्छति सति कारणेन गणानुज्ञा व्यवहारतृतीयोद्देशके उक्ता । तथा च सूत्रम्
—
D:\new/d-3.pm5\3rd proof
‘“णिरुद्धवासपरिआए समणे निग्गंथे आयरिअउवज्झत्ताए उद्दिसित्तए, समुच्छेअकप्पंसि, तत्थ णं आयारपकप्पस्स देसे अहिज्जिए भवइ, देसे णो अहिज्जिए, अहिज्जिस्सामि त्ति अहिज्जिज्जा, एवं से कप्पइ आयरिउवज्झायत्तं उद्दिसित्तए" [ ३।१० ] त्ति ।
१. C.P. I भावा (अनाभाव्य) व्यवहारित्वप्रति० मु० ॥ २. इतिसू० L.P. ॥