________________
७३४]
[धर्मसंग्रहः-तृतीयोऽधिकारः न परम्परयाऽपि ताभ्यां श्रोतृणां शुद्धपुरुषार्थलाभः, अनादेमिथ्याभिनिवेशस्य सुलभत्वात् , तस्मादुपसंपन्नानामुक्तगुणयुक्तानां सूत्रार्थादिक्रमेण सुनिश्चितं व्याख्यानं कार्यम् , न शुकप्रलापप्रायम् , उपसंपद्विधिस्तु व्याख्यातपूर्व एव, अत व्याख्यानयितव्यं तथा यथा श्रोतुरधिगमो भवेद् , आगमिकमागमेन, युक्तिगम्यं तु युक्त्या, तत्र 'स्वर्गेऽप्सरस उत्तराः कुरव' इत्याद्यागमिकम् , देहमात्रपरिमाण आत्मेत्यादि तु यौक्तिकं । तदाहुः -
"आणागेज्झो अत्थो, आणाए चेव सो कहेअव्वो । दिलृतिउ दिटुंता, कहणविहि विराहणा इहरा ॥१॥[ पञ्च./९९४] जो हेउवायपक्खंमि, हेउओ आगमे अ आगमिओ।
सो ससमयपण्णवओ, सिद्धंतविराहगो अण्णो" ॥२॥[पञ्च./९९३ ] त्ति । किंबहना? निश्चयाद्यनेकनयार्थप्रधान तथा व्याख्यानमतिसंवेगकरं कार्यं यथा मार्गदेशके भगवति सर्वज्ञे सम्प्रत्ययो भवति श्रोतृणामिति । अत्रोपेत्य वितथकरणं विषादितुल्यं विपाकदारुणत्वात् , आज्ञायोगश्च मन्त्रः, समस्तदोषापनायकत्वात् , तस्मादेतस्मिन्नपि काले आज्ञाकरणेऽमूढलक्ष्यैः शक्त्या यतनीयम् । अत्र व्याख्यानविधि: “मज्ज[ ण ] निसिज्ज" [आ.नि.७०३ ] इत्यादिनोपसंपत्सामाचार्यामुक्त एव । एवं योग्यशिष्येभ्यो व्याख्यानं नन्द्यादिसूत्रस्य दृष्टिवादस्य तदुद्धृतस्य स्तवपरिज्ञादेर्वा विधेयम् , येन निपुणधीगम्यार्थावबोधेन प्रबल-संशयचक्रवालनिरासेन शासनशोभावृद्धिर्भवतीतिपरमार्थः ॥१३३।।
इयमनुयोगानुज्ञा व्याख्याता । अथ गणानुज्ञारूपसापेक्षयतिधर्मं व्याचिख्यासुरिदमाह -
एतस्यैव गणानुज्ञाऽन्यस्य वा गुणयोगिनः ।
गुरुणा विधिना कार्या, गुणयोगी त्वयं मतः ॥१३४॥ "एतस्यैव' आचार्यपदे स्थापितस्यैव वा' अथवा अन्यस्य'अपरस्य गुणयोगिनः' - गुणसम्बन्धवत: 'गुरुणा' स्थापकाचार्येण 'विधिना' वक्ष्यमाणविधिपूर्वं 'गणानुज्ञा' गच्छाधिपतितेत्यर्थः ‘कार्या' विधेया, तत्र गुणयोगी 'तुः' विशेषणे 'अयं' च वक्ष्यमाणो 'मतः' प्रज्ञप्तो जिनैरितिशेषः ॥१३४।। तमेवाह -
सूत्रार्थज्ञः प्रियदृढधर्मा सर्वानुवर्तकः । सज्जातिकुलसंपन्नो, गम्भीरो लब्धिमांस्तथा ॥१३५॥
D:\new/d-3.pm5\3rd proof