________________
आचार्यस्य व्याख्यानम् -श्लो० १३३॥]
[७३३ इह अणुसढेि काउंदो वि निरुद्धं करेंति, दो वि सज्झायस्स कालस्स य पडिक्कमंति ॥
आचार्यस्य पञ्चैतेऽतिशया व्यवहारग्रन्थेऽभिहिताः - "भत्ते पाणे धोवण, पसंसणा हत्थपायसोए अ।
आयरिए अइसेसा, अणाइसेसा अणायरिए ॥१॥[व्य.भा.३.६।२२९] उप्पन्ननाणा जह नो अडंती, चुत्तीसबुद्धाइसया जिणिंदा । एवं गणी अट्ठगुणोववेओ, सत्था व नो हिंडइ इद्धिमं तु ॥२॥ [व्य.भा.३.६।१२५ ] गुरुहिंडणंमि गुरुगा, वसभे लहुगाऽनिवारयंतंमि । गीआगीए गुरुलहु , आसाईणा बहू दोसा ॥३॥[व्य.भा.३.६।१२६ ] पंच वि आयरिआई, अच्छंति जहन्नए वि संथरणे। एवं पि संथरंते, सयमेव गणं अडइ गामे" ॥४॥[व्य.भा.३.६।१७३ ] इति ॥१३२।। एवमनुयोगे दत्ते सति अनुयोगाचार्यो यथा व्याख्यानं करोति तथाऽऽह -
ततोऽसौ नित्यमुद्युक्तः, कार्ये प्रवचनस्य च ।
व्याख्यानं कुरुतेऽर्हेभ्यः, सिद्धान्तविधिना खलु ॥१३३॥ 'ततः' आचार्यपददानानन्तरम् 'असौ' आचार्यो 'नित्यं' निरन्तरं 'प्रवचनस्य' सिद्धान्तस्य संघस्य वा 'कार्ये' प्रयोजने 'उद्युक्तो' व्यापृतः 'च' एवार्थे 'अर्हेभ्यो' योग्यशिष्येभ्यः 'सिद्धान्तविधिना' सिद्धान्तोक्तविधिना 'खलु' निश्चयेन 'व्याख्यानं' 'कुरुते' विदधातीति संटङ्कः, योग्याश्च सर्वत्रारक्तद्विष्टा बुद्धियुक्ता परलोकभीरवः सामान्येन सिद्धान्तश्रवणस्य, यतस्ते सर्वत्रासद्ग्रहं न कुर्वते सूक्ष्मबादरान् दोषान् प्रपद्यन्ते, हडवदवनता धन्या अज्ञानसलिलादुत्तरन्ति चेति, प्राप्तादयश्च सूत्रविशेषं प्रति योग्याः, प्राप्तश्चात्र कल्पिको भण्यते, स पुनरावश्यकादिसूत्रकृतान्तं सूत्रं यद् येनाधीतं स, तस्यैव, सूत्रकृतान्तग्रहणं तर्कपरिकर्मितमतिश्रोत्रपेक्षया, छेदश्रुतादिश्रवणे स्वसमयप्राप्तेऽपि भावयुक्तः प्रियधर्माऽवद्यभीरुः पारिणामिकश्चाधिकारी, पारिणामिको ह्युत्सर्गापवादौ यथाविषयविभागमौचित्येन व्यवस्थापयतीति, ईदृशं प्रति छेदादिव्याख्यानं सम्यग्बोधादिहेतुत्वेन हितम् , अतिपरिणामकापरिणामको प्रति तु चित्रकर्मदोषेणाहितमेव विज्ञेयम् , तयोस्तत एवानर्थभावात् । यत् पूज्याः"आमे घडे निहत्तं, जहा जलं तं घडं विणासेड़। इअ सिद्धंतरहस्सं, अप्पाहारं विणासेड" ॥२॥[पञ्च./९८२] त्ति ।
१. धोवणए संमणा-C.P. संशो० ॥
D:\new/d-3.pm5\3rd proof