________________
विहारस्वरूपम् -श्लो० १२६॥]
[७१५ दिक्षु अन्यतरस्यामशिवायुपद्रवे तिसृषु द्वयोरेकस्यां वा दिशि प्रेषयन्ति, अनापृच्छया प्रेषणे चमार्गेस्तेनादिभये तत्र प्राप्तानांच प्रत्यनीकादिभये तैरप्रतिजागरणात् , एकैकस्यांचदिश्युत्कर्षतः सप्त तदभावे पञ्च जघन्यतश्च त्रय आभिग्रहिका नियमाद् गच्छन्ति । यतः -"चउदिसितिदुइक्कं वा,सत्तगपण तिगजहन्नाय"[ बृहत्कल्प० भा० १४६३उत्त.]इति।आभिग्रहिकाभावे तु गणावच्छेदकस्य गमनं भवति, तदभावेऽपरगीतार्थस्य, तस्याप्यभावे यथाक्रममगीतार्थं १ योगवाहिनं २ क्षपकं ३ वृद्धं ४ बालं५ वैयावृत्त्यकरं च प्रेषयेत् । उक्तं च - "वेयावच्चगरं बाल, वुड्ड खवगं वहंतऽगीअत्थं । गणवच्छेइअगमणं, तस्स व असई अ पडिलोमं" ॥१॥[बृ.क.भा./१४६४] इति ।
यथालन्दिकानां त्वेकस्यामेव दिशि द्वौ गच्छतः, शेषत्रिदिक्षु गच्छवासिन एव तद्योग्यं क्षेत्रं प्रत्युपेक्षन्त इत्यवसेयम् । ___ अथ यद्यगीतार्थस्तदौघसामाचारी शिक्षयित्वा प्रेष्यः, तदभावे च योगवाही [च] योगं निक्षेप्य प्रेष्यः, क्षपकश्च प्रथमं पारयितव्यस्ततो मा क्षपणं कार्षीरिति च शिक्षणीयः, वैयावृत्त्यकरश्च वास्तव्यसाधूनां स्थापनाकुलानि दर्शयति, ततो बालवृद्धयुगलं च दृढशरीरं वृषभसाधुसहितं वा प्रेष्यम् । यतः - "सामायारिमगीए, जोगीमणागाढ खवग पारावे । वेचावच्चे दायग जुअल समत्थं व सहिअं वा" ॥१॥ [ बृ.क.भा./१४७१] इति ।
गच्छन्तश्च मार्ग प्रश्रवणोच्चारभूमिके पानकस्थानं विश्रामस्थानानि भिक्षां प्राप्यमाणामप्राप्यमाणां वाऽन्तरालेऽवस्थानार्थमुपाश्रयान् चौरादेरस्तित्वं नास्तित्वं वा दिवा रात्रौ वा प्रत्यपायांश्च निरूपयति । यतः - "पंथुच्चारे उदए, ठाणं भिक्खंतरालवसहीओ।
तेणा सावय वाला, पच्चावाया य जाणविहि" ॥१॥[बृ.क.भा./१४७३ ] इति । ___ तत्र मार्गे द्रव्यतः कण्टकस्तेनादयः प्रत्युपेक्ष्याः, क्षेत्रतो निम्नोन्नतादिप्रदेशाः, कालतो दिवा रात्रौ वा प्रत्यपायाः, सुगमविहारो वा, भावतश्च स्वपक्षेण परपक्षण वाऽऽक्रान्तोऽयं पन्था इत्यादि भाव्यम् , ते च सूत्रार्थपौरुषीं न कुर्वन्ति, तत्करणे हि गुरोनित्यवासादयो दोषाः स्युः, यथालन्दिकास्तु कुर्वते, ततो गच्छवासिन आसन्नग्रामे
१. P. बृहत्कल्पभाष्ये च । रमणं-मु० ।। २. जोगीमणागाढ खमग पारावे । वेयावच्चे दायणइति बृहत्कल्पभाष्ये ॥ ३. P. । भिक्खंतबाल° मु० । भिक्खंतरा य इति बृहत्कल्पभाष्ये ॥ ४. प्रत्यवाया-L.P. ||
D:\new/d-3.pm5\3rd proof