________________
७१४]
[धर्मसंग्रह:-तृतीयोऽधिकारः अत्र प्रसङ्गप्राप्तं किञ्चिद्विहारस्वरूपं कल्पभाष्यानुसारेण प्रदर्श्यते, तद्यथा – आचार्योपाद्यायस्थविरभिक्षुक्षुल्लकभेदात् पञ्चधा स्थविराः । यतः - "निष्फत्तिं कुणमाणा, थेरा विहरंति तेसिमा मेरा ।
आयरियउवज्झाया, भिक्खू थेरा य खुड्डा य" ॥१॥[बृ.क.भा./१४४७ ] त्ति । ___ एते च शिष्याणामुत्पत्तिं कुर्वन्तोऽष्टौ मासान् विहरन्ति, तत्र प्रत्युपेक्षकाश्च गीतार्था भवन्ति, क्षेत्रपत्युपेक्षणा चैवम् , व्याघाते सति कार्तिकचतुर्मासकेऽप्राप्तेऽतिक्रान्ते वा निर्गच्छन्ति, तदभावे तु चातुर्मासिकदिने प्राप्ते, मार्गशीर्षप्रतिपदि बहिर्गत्वा पारयन्तीत्यर्थः । यतः - "निग्गमणमि अ पुच्छा, पत्तमपत्ते अइच्छिए वा वि । वाघायंमि अपत्ते, अइच्छिए तस्स असईए" ॥१॥ [ बृ.क.भा./१४५० ]
अत्र पूर्वार्द्ध शिष्यपृच्छा, उत्तरार्द्ध च गुरुवच इति । व्याघातश्च प्राप्ते चतुर्मासकदिनेऽप्राप्ते वाऽऽचार्याणां नक्षत्रमननुकूलम् , कार्तिकीमहे वाऽमङ्गलबुद्ध्या जनकृतोपद्रवो भवतीत्यतोऽतिक्रान्ते निर्गन्तव्यम् , अथ प्राप्तेऽतिक्रान्ते वा नक्षत्रमननुकूलम् , कार्तिकीमहे वाऽमङ्गलबुद्ध्या भाविनी वा बहुलवृष्टिर्ज्ञानातिशयेन ज्ञातेति तदाऽप्राप्ते चातुर्मासकदिने निर्गन्तव्यमिति, ज्ञात्वा च निर्गमनकालं क्षेत्रप्रत्युपेक्षकान् तथा प्रेषयति यथाऽऽयातेषु सत्स्वेषु निर्गमनकालं उपढौकते । उक्तं च - "पत्तमपत्ते रिक्खं, असाहगं पुन्नमासिणिमहो वा । पडिकूल त्ति अ लोगो, मा वोच्छिइ तो अईअंमि ॥१॥[बृ.क.भा./१४५१] पत्ते अइच्छिए वा, असाहगं तेण णिति अप्पत्ते । नाउं निग्गमकालं, पडिस( च )रए पेसए वि तहा" ॥२॥ [बृ.क.भा./१४५२] क्षेत्रं च दृष्टपूर्वमदृष्टपूर्वं चेत्युभयमपि नियमेन प्रत्युपेक्षणीयम् , अन्यथा दोषाः । यतः - "अप्पडिलेहियदोसा, वसही भिक्खं च दुल्लहा होज्जा। बालाइगिलाणाण व पाउग्गं अहव सज्झाओ" ॥१॥[बृ.क.भा./१४५३] त्ति । तत्प्रेषणे चायं विधिः -आवश्यकसमाप्तौ सर्वसाधून मेलयित्वा पृष्ट्वा च चतसृष्वपि
१. इत आरभ्य ७१८तमपृष्ठे "इति संक्षेपतो विहारविधिस्वरूपम्" इत्येतावत्पर्यन्तः पाठः C. प्रतौ नास्ति, L.P. प्रत्योरस्ति ।। २. P. बृहत्कल्पभाष्ये च । निअतत्ति-मु० ॥ ३. L.P. । (भाव्यं) भाविनीमु० ॥ ४. पडिसरए-मु० P. । पडिचरए-इति बृहत्कल्पभाष्ये । प्रतिचरकान्-इति तत्र वृत्तौ ॥ ५. P. बृहत्कल्पभाष्ये च । य-मु०॥
D:\new/d-3.pm53rd proof