________________
विहारस्वरूपम् -श्लो० १२६॥]
[७१३ "जिणकप्पो उ गीअत्थो, परिहारविसुद्धिओ वि गीअत्थो ।
गीअत्थे इड्डिदुगं सेसा गीअत्थनीसाए" ॥१॥[बृ.क.भा./६९१] उत्तरार्द्धव्याख्या -गच्छे गीतार्थविषयमृद्धिमतोराचार्योपाध्याययोर्द्विकं द्रष्टव्यम् , सूत्रे मतुब्लोपः प्राकृतत्वात् । आचार्य उपाध्यायो वा नियमाद् गीतार्थः, एषां सर्वेषामपि स्वातन्त्र्येण विहारो ज्ञेयः, शेषसाधवो गीतार्थनिश्रया आचार्योपाध्यायलक्षणगीतार्थपारतन्त्र्येण विहरन्ति । तथा -
"आयरिअगणीइड्डी, सेसा गीआ वि हुंति तन्नीसा।
गच्छगयनिग्गया वा, ठाणणिउत्ताऽनिउत्ता वा" ॥१॥[बृ.क.भा./६९२] आचार्यः सूरिर्गणी उपाध्यायः गच्छनिर्गता अशिवे ओमोदरिए इत्यादिभिः कारणैरेकाकीभूताः स्थाननियुक्ताः –पदे व्यापारिताः प्रवर्तकाद्याः पदस्थगीतार्थ इत्यर्थः, तद्विपरीताः –स्थानाऽनियुक्ताः सामान्यसाधव इत्यर्थः, एते सर्वेऽप्याचार्योपाध्यायनिश्रया विहरन्ति इति ।* अयं भावः -गीतार्थो हि कृत्याकृत्यवेत्ता यथालाभं प्रवर्त्तते । यदुक्तं बृहत्कल्पे"सुंकाईपरिसुद्धे, सइ लाभे कुणइ वाणिओ चिटुं।
एमेव य गीअत्थो, आयं दटुं समायरइ" ॥१॥ [बृ.क.भा./९५२ ] त्ति । अत एव शास्त्रे स केवलितुल्य उक्तः । तथा च कल्पग्रन्थः -
"सव्वं णेअं चउहा, तं बेइ जिणो जहा तहा वि गीअत्थो ।
चित्तमचित्तं मीसं, परित्तणंतं च लक्खणओ" ॥१॥ [बृ.क.भा./९६२] सर्वं ज्ञेयं चतुर्द्धति द्रव्यादिभिश्चतुष्प्रकारम् , ननु केवली समस्तवस्तुस्तोमवेदी श्रुतकेवली पुनः केवलज्ञानानन्ततमभागज्ञानवान् ततः कथं केवलितुल्यो भवितुमर्हतीति चेत् , शृणु -
"कामं खलु सव्वण्णू , नाणेणऽहिओ दुवालसंगीओ।
पन्नत्तीइ उ तुल्लो केवलनाण जओ मूकं" ॥१॥[बृ.क.भा./९६३] व्याख्या -काममनुमतं खल्वस्माकं -सर्वज्ञः केवली, द्वादशाङ्गिन: -श्रुतकेवलिनः सकाशात् ज्ञानेनाधिकः, परं प्रज्ञप्त्या -प्रज्ञापनया श्रुतकेवलिना केवली तुल्यः, कुतः? इत्याह –यत: केवलज्ञानं मूकमनक्षरम् , किमुक्तं भवति ?-यावतः पदार्थान् श्रुतकेवली भाषते तावत एव केवल्यपि, ये तु श्रुतज्ञानस्याविषयभूता भावाः केवलिनाऽवगम्यन्ते, तेषामप्रज्ञापनीयतया केवलिनापि वक्तुमशक्यत्वादित्यलं विस्तरेण ।
१. न-इति बृहत्कल्पसूत्रवृत्तौ पृ० ३०४ ॥ २. P. संशो० बृहत्कल्पसूत्रवृत्तिः पृ० ३०४ । 'स्याप्यवि मु० । स्यापिवि°C. ||
D:\new/d-3.pm53rd proof