________________
७१२]
_ [धर्मसंग्रहः-तृतीयोऽधिकारः "पंचसमिआ तिगुत्ता, उज्जुत्ता संयमे तवे चरणे।
वाससयं पि वसंता, मुणिणो आराहगा भणिआ" ॥१॥ [उ.मा./३९१] विहारश्चायतनावतामपि भवतीत्याह –'सम्यग्'इति द्रव्यादियतनया तत्र द्रव्यतो यतना मार्गस्थजीवानां प्रेक्षणम् , क्षेत्रतो युगमात्रभूमेनिरीक्षणम् , कालतो यावत्कालं गमनम् , भावतश्चोपयोग इति । तदुक्तम् -
"दव्वओ चक्खुसा पेहे, जुगमित्तं च खित्तओ।
कालओ जाव रीएज्जा, उवउत्तो अ भावओ" ॥१॥[प्रव./७७१] इति । ओघनिर्युक्तावपि - "पंथं तु वच्चमाणो, जुगंतरं चक्खुणा व पडिलेहे।
अइदूरचक्खुपाए, सुहुमा तिरिआ य नो पेहे" ॥१॥[ओघनि./३२६] सूक्ष्मास्तिर्यग्गतान् प्राणिनो न पश्यतीति तुर्यपदार्थः । ।
"अच्चासन्ननिरोहे, दुक्खं दटुं पि पायसंहरणं।
छक्कायविऊरमणं, सरीरं तह भत्तपाणे अ" ॥२॥ [ ओघनि./३२७ ] निरोधे इत्यस्य चक्षुषः पाते इत्यर्थः, 'विऊरमणं'ति च विराधनम् ।
"उड्डमुहो कहरत्तो, अविअक्खंतो अ वियक्खमाणो अ।
बायरकाए वहए, तसेअरेऽसंजमे दोसा" ॥१॥ [ओघनि./भा.१८८] ऊर्ध्वमुखः कथारक्त: अवीक्षमाणः -पृष्ठतो निरूपयन् वीक्षमाणो -विविधं सर्वासु दिक्षु पश्यन्निति । ईदृक् च विहारो यथाछन्दानामपि भवति, स तु नेष्टः, इत्यत आह - 'गीतार्थनिश्रया' इति गीतो -विज्ञातोऽर्थः -कृत्याकृत्यलक्षणो यैस्ते गीतार्थाः, अथवा गीतेन -सूत्रेण अर्थेन च -व्याख्यानेन युक्ता गीतार्थाः । यतः -
"गीअं भण्णइ सुत्तं, अत्थो पुण होइ तस्स वक्खाणं । __ गीएण य अत्थेण य, जुत्तो सो होइ गीअत्थो" ॥१॥[ ] इति । तेषां निश्रया -उपसंपदा न त्वगीतार्थनिश्रयेत्यर्थः । यत उक्तम् -
"गीअत्थो अ विहारो, बीओ गीअस्थमीसिओ भणिओ।
इत्तो तइअविहारो, णाणुण्णाओ जिणवरेहिं" ॥१॥[उ.मा./१२१] *अत्र सामान्योक्तावपि स्वातन्त्र्येण विहार आचार्योपाध्यायलक्षणगीतार्थानामेव ज्ञेयः, शेषगीतार्थानां तु तन्निश्रयैव शास्त्रे विहारस्योक्तत्वात् । तथा च कल्पभाष्यम् -
१. "तह-L.P. संशो० ॥ २. L.P.C. I पादार्थः-मु० ॥ ३. सुहमतिरिच्छग्गय ओ०नि०मु० ॥ ४. L.P. I ** चिह्नद्वयमध्यवर्तीपाठ: मु० C. नास्ति ।।
D:\new/d-3.pm53rd proof