________________
विहारस्वरूपम् -श्लो० १२६॥]
[७११ संज्वलनोदयजनितत्वेनातिचाराणामपि मानसविकारत्वात् , द्रव्यरूपकायिकप्रतिषेवणादीनां तु अदूरविप्रकर्षेणैव निवृत्तिरिति दिक्] ॥१२५॥ तथा –
विहारोऽप्रतिबद्धश्च, सम्यग्गीतार्थनिश्रया ।
महामुनिचरित्राणां, श्रवणं कथनं मिथः ॥१२६॥ 'अप्रतिबन्धः' प्रतिबन्धरहितो विहारो' विहरणं मासकल्पादिनाऽन्यान्यस्थाने गमनमिति भावः, सापेक्षयतिधर्मो भवतीति प्रकृते योजना, प्रतिबन्धश्च द्रव्यादिविषयभेदाच्चतुर्द्धा - तत्र द्रव्ये श्रावकादौ, क्षेत्रे निवातवसत्यादौ काले शिशिरादौ, भावे शरीरोपचयादाविति । अत्रेदमवधेयम् –प्रतिबन्धतः सुखलिप्सुतया मासकल्पादूर्ध्वमुत्सर्गतस्तावदेकत्र न तिष्ठेत् , मासकल्पादिना च विहारोऽपि द्रव्याद्यप्रतिबद्धस्यैव सफलः, यदि पुनरमुकं नगरादिकं गत्वा तत्र महद्धिकान् बहून् श्रावकानुपार्जयामि तथा च करोमि यथा मां विहायाऽपरस्य ते भक्ता न भवन्तीत्यादिद्रव्यप्रतिबन्धेन, तथा निवातवसत्यादिजनितरत्युत्पादकममुकक्षेत्रम् , इदं तु न तथाविधमित्यादिक्षेत्रप्रतिबन्धेन, तथाऽस्मिन्नृतावमुकक्षेत्रं सरसमित्यादिकालप्रतिबन्धेन, तथा स्निग्धमधुराद्याहारादिलाभेन, तत्र गतस्य मम शरीरपुष्ट्यादिसुखं भविष्यत्यत्र तु न तत् सम्पद्यते, अपरं चैवमुद्यतविहारेण विहरन्तं मामेवोद्यतं लोका भणिष्यन्त्यमुकं तु शिथिलमित्यादिभावप्रतिबन्धेन च मासकल्पादिना विहरति तदाऽसौ विहारोऽपि कार्यासाधक एव, तस्मादवस्थानं विहारो वाऽप्रतिबद्धस्यैव साधुरिति । ____ कारणतश्च न्यूनाधिकमपि मासकल्पं कुर्यात् । कारणानि च द्रव्यादिदोषाः, तत्र द्रव्यदोषो भक्तपानादीनां शरीराननुकूलता, क्षेत्रदोषः संयमाननुगुणत्वादिः, कालदोषो दुर्भिक्षादिः, भावदोषो ग्लानत्वज्ञानादिहानिः, एषु च सत्सु बहिर्वृत्त्या मासकल्पविहाराभावेऽपि भावतो वसतिपाटकसंस्तारभूमिपरावर्त्तनादिभिरपि मासं मासं स्थानव्यत्ययं कुर्वीतैकत्र ग्रामादौ । यदुक्तमेतदेव सपूर्वपक्षं पञ्चवस्तुके -
"मोत्तण मासकप्पं, अण्णो सत्तंमि णत्थि उ विहारो।
ता कहमाइग्गहणं?, कज्जे ऊणाइभावाओ" ॥१॥[पञ्च.८९६, प्रव.७७३ ] तथा- "कालाइदोसओ जइ, न दव्वओ एस कीई णिअमा।
भावेण तह वि कीड. संथारगवच्चयाईहिं" ॥२॥ प्रव.७७४] एवं च भावेन स्थानपरावृत्तिं कुर्वतामेकत्र स्थितानामपि यतीनामविरुद्धमेव । यतः -
१. तुला-प्रवचनसारोद्धारवृत्तिः भा० २ प० २३ ।। २. अत्र चाऽयं विवेकः-प्र० L. ॥ ३. °भावेणं प्र०सा०मु०॥
D:\new/d-3.pm5\3rd proof