________________
७१०]
[धर्मसंग्रहः-तृतीयोऽधिकारः उज्जुविहारीणं उवसंपन्नो जो पासत्थाइ सो उववायविहारट्ठिओ [ने ] वाएज्ज वा, अहवा पासत्थाइआण वा जो संविग्गविहारं गंतुकामो तं च पासत्थाइभावठिअं चेव वाइज्जा जाव अब्भुटेइ, एवं वायणा दिट्ठा"[ ] |
इत्यलं प्रसङ्गेन प्रकृतं प्रस्तुमः, तथा अर्थपदचिन्तनम्' इति अर्यमाणं विचार्यमाणं - यत्पदं वाक्यादि पद्यते गम्यतेऽर्थोऽनेनेति व्युत्पत्तेस्तस्य चिन्तनं भावनं विचारणं स्वविषये स्थापनमितियावत् । अयं भावः -सूक्ष्मेक्षिकया भावनाप्रधानेन सताऽर्थपदं विचारणीयम् , विचार्य च बहुश्रुतसकाशात् स्वविषये स्थापयितव्यम् , अर्थपदचिन्तनं विना हि सम्यग् धर्मश्रद्धानमेव न घटते । तथा च पारमर्षे – "सुच्चाण धम्मं अरहंतभासिअं, समाहिअं अट्ठपओवसुद्धम्"[ ] इत्यादि, तस्मादर्थपदं विचार्य स्वविषये स्थापयितव्यम् , तद्यथा - यदि सूक्ष्मोऽप्यतिचारो ब्राह्मीसुन्दर्यादीनामिव स्त्रयादिभावहेतुस्तदा प्रमत्तानां साधूनां कथं चारित्रं मोक्षहेतुत्वेन घटते ? प्रभूतातिचारवत्त्वात् ।
[अत्रेयं समाधानभावना-यः प्रव्रजित: सूक्ष्ममप्यतिचारं करोति तस्य विपाकोऽतिरौद्र एव, परं प्रतिपक्षाध्यवसायः प्रायस्तस्य क्षपणहेतुः, नालोचनादिमात्रम् , ब्राहयादीनामपि तद्भावात् , प्रतिपक्षाध्यवसायश्च क्रोधादेः क्षमादिः संवरभावनोक्तः, एवं च प्रमत्तानामपि प्रत्यतिचारं तुल्यगुणाधिकगुणप्रतिपक्षाध्यवसायवतां धर्मचरणमविरुद्धम् , सम्यक्कृतप्रतिकारस्य विषस्येवातिचारस्य स्वकार्याऽक्षमत्वात् , नन्वेवं प्रतिपक्षाध्यवसायस्यैवातिचारप्रतिकारत्वे प्रायश्चित्तादिव्यवहार उच्छिद्येत इति चेत् , न, प्रायश्चित्तादियतनाव्यवहारे तुल्यतामप्राप्नुवति प्रतिपक्षाध्यवसायस्य विशेषणस्य ध्रौव्यात् , तदुत्कर्षकत्वेनैव च विशेष्यस्य साफल्यात् , विशेष्यविशेषणभावे विनिगमनाविरहस्तु नयभेदायत्तो दुष्परिहर एव, तथाप्यसकृत् प्रमादाचरणं कृतमिति क्रमजातं प्रतिपक्षाध्यवसायेन कथं परिहियेत?, असकृत् कृतस्य मिथ्यादुष्कृतस्याप्यविषयत्वादितिचेत् , मैवम् , अत एव तुल्यगुणाधिकगुणाध्यवसायस्यैव ग्रहणात् एकेनापि बलवता प्रतिपक्षेण परिभूयते बहुलमप्यनर्थजातम् , कर्मजनिताच्चातिचारादेरात्मस्वभावसमुत्थस्य स्तोकस्यापि प्रतिपक्षाध्यवसायस्य बलवत्त्वमुपदेशपदादिप्रसिद्धमेव, स्यादेतत् -मानसा विकाराः प्रतिपक्षाध्यवसायनिवर्त्या भवन्तु , कायिकप्रतिषेवणारूपा अतिचारास्तु कथं तेन निवर्तेरन्निति चेत् , मैवम् ,
१. "मूल छापेली प्रतमां [न] अने वा छे ते अधिक समजाय छे, अथवा तेनो 'उद्यतविहारथी वर्तवा छतां योग्यता न जणाय तो नहि आपवी,' एम अर्थ करवो" इति धर्मसंग्रह भाषान्तरग्रन्थे भा० २ पृ० ४१३ | C.P. न-अस्ति ।
D:\new/d-3.pm5\3rd proof