________________
७०८]
[धर्मसंग्रहः-तृतीयोऽधिकारः "बाहिं आगमणपहे, उज्जाणे देउले सभाए वा।
रच्छ उवस्सय बहिआ, अंतो जयणा इमा होइ" ॥१॥[बृ.क.भा./४५४३] व्याख्या -यत्र ते ग्रामनगरादौ तिष्ठन्ति तस्य बहि:स्थितो यदि तान् पश्यति तदा निराबाधवात्र्ती गवेषयति । यदा ते भिक्षाचर्यादौ गच्छन्ति तदा तेषामप्यागमनपथे स्थित्वा गवेषणां करोति । एवमुद्याने दृष्टानां चैत्यवन्दननिमित्तं गतैर्देवकुले वा समवसरणे वा दृष्टानां रथ्यायां वा भिक्षायामटतामभिमुखागमने मिलितानां वार्ता गवेषणीया । कदाचित्ते पार्श्वस्थादयो ब्रवीरन् -अस्माकं प्रतिश्रये कदापि नागच्छत ?, ततस्तदनुवृत्त्या तेषां प्रतिश्रयमपि गत्वा तत्रोपाश्रयस्य बहि: स्थित्वा सर्वमपि निराबाधतादिकं गवेषयति । अथ गाढतरं निर्बन्धं कुर्वन्ति तत उपाश्रयाभ्यन्तरेऽपि प्रविश्य गवेषयतां साधूनामियं -वक्ष्यमाणा पुरुषविशेषवन्दनायतना भवति । तत्र पुरुषं तावदाह -
"मुक्कधुरा संपाडगअकिच्चे( सेवी) चरणकरणपब्भटे। लिंगावसेसमित्ते, जं कीरइ तारिसं वुच्छं ॥१॥ [बृ.क.भा./४५४४] वायाइ नमोक्कारं, हत्थुस्सेहो असीसनमणं च ।
संपुच्छणअच्छणच्छोभवंदणं वंदणं वा वि" ॥२॥[बृ.क.भा./४५४५ ] इमे वन्दनाधिकारे व्याख्याते - "एआई अकुव्वंतो, जहारिहं अरिहदेसिए मग्गे।
ण हवइ पवयणभत्ती, अभत्तीमंताइआ दोसा" ॥१॥[बृ.क.भा./४५४९] वन्दने कारणान्याह - ___ "परिआय परिस पुरिसं, खेत्तं कालं च आगमं जाउं ।
कारणजाए जाए, जहारिहं जस्स जं जोग्गं" ॥२॥ [बृ.क.भा./४५५०] इमे अपि व्याख्याते । कारणे च तेषां वन्दनाऽकरणे प्रत्युत प्रायश्चित्तमपि । तदुक्तं कल्पभाष्ये -
"उप्पन्नकारणमि, किइकम्मं जो न कुज्ज दुविहं पि ।
पासत्थाईआणं, उग्घाया तस्स चत्तारि" ॥१॥[बृ.क.भा./४५४०] १. स्थिता-मु० P.C. I स्थितो-इति बृहत्कल्पवृत्तौ ॥ २. P.C. बृहत्कल्पवृत्तौ । पश्यंति-मु०॥ ३. P.C. बृहत्कल्पवृत्तिः । षयंति-मु० ॥ ४. तत्राग इति बृहत्कल्पवृत्तौ ।। ५. “माग' इति बृहत्कल्पवृत्तौ ।। ६. P.C. संशो० बृहत्कल्पवृत्तौ । गति मु० मूल C. | ७. P. I °न्ति-मु०C. ॥ ८. संपाडगसेवी-इति बृहत्कल्पभाष्ये, अत्रैव द्वितीयाधिकारे च पृ०३४४ ॥ ९. कायव्वं-इति बृहत्कल्पभाष्ये ॥
D:\new/d-3.pm53rd proof