________________
कुसंसर्गत्यागेऽपवादादिस्वरूपम् -श्लो० १२५॥]
[७०७ र्योजनम् ३, बहुमानरसभरेण सरभसं 'नमो खमासमणाण'मिति भणनम् ४, निषद्याकरणम् ५, एतेषां पदानां योगश्च ६, एतेषु सर्वेष्वपि कृतेषु प्रायश्चित्तम् , अन्येषु पार्श्वस्थादिषु नवसु गृहस्थसहितेषु कृतिकर्माऽञ्जलिकरणयोः प्रत्येकं चतुर्लघुका: प्रायश्चित्तम् , एवं दानादिष्वपि ज्ञेयम् , तथाहि-पार्श्वस्थादीनामशनादिदाने तेभ्यो वाऽशनादिग्रहणे चतुर्लघु , यतः पार्श्वस्थादय उद्गमादिदोषेषु वर्तन्तेऽतस्तेषां दाने तेऽनुमोदिता भवन्ति, तेषां च हस्ताद् ग्रहणे उद्गमादिदोषाः प्रतिसेविता भवन्ति । उक्तं च -
"पासत्थोसन्नाणं, कुसीलसंसत्तनीअवासीणं । जे भिक्खू असणाई, दिज्ज पडिच्छिज्ज वाऽऽणाई ॥१॥[ ] उग्गमदोसाईआ, पासत्थाई जओ न वज्जंति । तम्हा उ तव्विसुद्धी, इच्छंतो ते विवज्जिज्जा ॥२॥[ ] सूइज्जइ अणुरागो, दाणाणं पीइओ अ गहणे तु ।
संसग्गया य दोसा, गुण अ इअ ते परिहरेज्जा" ॥३॥[ ] पार्श्वस्थादीनां वस्त्रदाने तेषां हस्तात् प्रातिहारिकग्रहणे च चतुर्लघुकमेव, पार्श्वस्थादीनां वाचनादाने तेभ्यो वा वाचनाग्रहणे सूत्रे चतुर्लघु अर्थे चतुर्गुरु यथाछन्दानां सूत्रे चतुर्गुरु अर्थे षट्लघु , अनेकदिनवाचनासु पुनः ‘सत्तरत्तं तवो होइ' इत्यादिक्रमेण प्रायश्चित्तवृद्धिरुपढौकते । पार्श्वस्थादिषु वाचनादानादानयोर्वन्दनकदुष्टसंसर्गादयोऽनेके दोषा इत्येवमुत्सर्गतः पार्श्वस्थादीनां वन्दनाद्यपि न कार्यमिति स्थितिम् । कारणतस्तु कल्पते, तत्रादौ वन्दनं दर्श्यते । तथाहि -
"गच्छपरिरक्खणट्ठा, अणागयं आउवायकुसलेणं ।
एवं गणाहिवइणा, सुहसीलगवेसणा कुज्जा" ॥१॥[बृ.क.भा./४५४२] व्याख्या -अवमराजद्विष्टादिषु ग्लानत्वे वा यदशनपानाद्युपग्रहकारणेन गच्छपरिपालनं तदर्थमनागतमवमादिकारणेऽनुत्पन्न एव, 'आयोपायकुशलेन' आयो नाम पार्श्वस्थादेः पाान्निःप्रत्यूहसंयमपालनादिको लाभः, उपायो नाम तथा कथमपि करोति यथा तेषां वन्दमददान एव शरीरवार्ता गवेषयति, न च तथा क्रियमाणे तेषामप्रीतिकमुपजायते स्वचेतसि च ते चिन्तयन्ति –'अहो एते स्वयं तपस्विनोऽप्येवमस्मासु स्निह्यन्ति' तत एतयोरायोपाययोः कुशलेन गणाधिपतिना एवं-वक्ष्यमाणप्रकारेण सुखशीलानां गवेषणा कार्या । तत्र येषु स्थानेषु कर्त्तव्या तानि दर्शयति -
D:\new/d-3.pm53rd proof