________________
७०६]
[ धर्मसंग्रहः - तृतीयोऽधिकारः भावं यान्ति ततो वर्जयत कुशीलसंसर्गीमिति । अयं च संविग्नबहुलकालापेक्ष उत्सर्गः, संक्लिष्टकालवशात्तादृशसहायालाभे तु पार्श्वस्थादीनामन्यतरेणापि सह वसति । यत उक्तं पञ्चकल्पभाष्ये -
—
"कालंमि संकिलिट्टे, छक्कायदयावरो वि संविग्गो ।
कयजोगीणमलंभे, पणगन्नयरेण संवसइ" ॥१॥ [ पं.क.भा./ १७४९] ‘पणगन्नयरेण’ति पार्श्वस्थादीनां पञ्चानामेकतरेण न तु द्व्यादिदोषसंयोगवता, दोषगुणसंयोगतारतम्ये विराधकत्वाराधकत्वतारतम्यव्यवस्थितेः । तदुक्तमुपदेशमालायाम् - "एगागी पासत्थो, सच्छंदो ठाणवासि ओसन्नो ।
दुगमाई संजोगा, जह बहुआ तह गुरू हुंति १॥ [ उ.मा./३८७ ] गच्छ्गओ अणुओगी, गुरुसेवी अणिअवासि आउत्तो ।
संजोए पयाणं, संजमआराहगा भणिआ" ॥२॥ [ उ.मा./३८८ ] उपदेशपदेऽपि पार्श्वस्थादिसंसर्गो यतनयाऽनुमतः, तथाहि - "अग्गी आदाइणे" [ उ.प.८४० ] इत्यादि । उपदेशमालायामप्युक्तम्
"सुबहुं पासत्थाणं, नाऊणं जो ण होइ मज्झत्थो ।
नय साहेइ सकज्जं, कागं च करेइ अप्पाणं" ॥१॥ [ उ.मा. / ५१० ] इति । अत्र प्रसङ्गतः पार्श्वस्थादिविषयवन्दनादिषूत्सर्गापवादौ प्रदर्श्यते, तत्र पार्श्वस्थादीनां वन्दननिषेधः प्राग्गुरुवन्दनाधिकारे – “पासत्थाइ वंदमाणस्स" [ आवश्यकनि० ११०८ ] इत्यादिना प्रदर्शित एव, एतेषामभ्युत्थानादौ च प्रायश्चित्तमप्युक्तम् । तद्यथा – "अहच्छंदब्भुट्ठाणं अंजलिकरणे य हुंति चउगुरुआ ।
अण्णेसुं चउलहुआ, एवं दाणाइसु वि णेयं ॥१॥ [ गु.वि.३/१२४]
व्याख्या –एतेषामभ्युत्थानादौ प्रायश्चित्तमाह, यथाछन्दस्याभ्युत्थानाञ्जलिकरणयोर्भवं प्रत्येकं चत्वारो गुरुकाः प्रायश्चित्तम् । तत्राभ्युत्थानं षोढा – अभिमुखोत्थानम् १, आसनोपढौकनम् २, किं करोमीतिभणनम् ३, धर्मच्युतस्य पुनर्धर्मस्थापनारूपमभ्यासकरणम् ४, अभेदरूपाऽविभक्तिरेतत्पञ्चपदरूपः संयोग ५-६ श्चेति । तत्राभिमुखोत्थानादिपञ्चके कृतेऽभ्यासकरणे पुनः सामर्थ्ये सत्यकृते प्रायश्चित्तम् । अञ्जलिकरणमपि षोढा, पञ्चविंशत्यावश्यकयुक्तवन्दनम् १, शिरसा प्रणामकरणम् २, एकस्य द्वयोर्वा हस्तयो१. अनियओ गुणाउत्तो – इति उपदेशमालायाम् ॥ २. पासत्थजणं - इति उपदेशमालायम् ॥
D:\new/d-3.pm5\3rd proof