________________
कुसंसर्गत्यागस्वरूपम् -श्लो० १२५॥]
[७०५ "असुइट्ठाणे पडिआ, चंपकमाला ण कीरइ सीसे । पासत्थाईठाणेसुं , वट्टमाणा तह अपुज्जा ॥१॥[आव.नि./११११] पक्कणकुले वसंतो, सउणीपारो वि गरहिओ होइ। इअ गरहिआ सुविहिआ, मज्झि वसंता कुसीलाणं" ॥२॥[आव.नि./१११२] इति ।
ननु क: पार्श्वस्थादिसंसर्गमात्राद् गुणवतो दोषः ? न हि काचमणिकैः सह प्रभूतकालमेकत्र तिष्ठन्नपि विडूर्यमणिः काचभावमुपैति, स्वगुणप्राधान्यात् , न वा नलस्तम्ब इक्षुवाटमध्ये वसन्नपीक्षुसंसर्गतो मधुरत्वमुपयाति, स्वदोषप्राधान्यात् । तथा चान्यत्रापि - "असाधुः साधुर्वा भवति खलु जात्यैव पुरुषः, न सङ्गाद् दौर्जन्यं न च सुजनता कस्यचिदहो । प्ररूढे संसर्गे मणिभुजगयोर्जन्मजनिते; मणिर्हिद्दोषान् स्पृशति न च सर्पो मणिगुणान्" ॥१॥[]
तदेवं गुणवानपि पार्श्वस्थादिसंसर्गेण न गुणांस्त्यक्ष्यति इति चेत् , मैवम् , द्रव्याणां विचित्रपरिणामत्वात् , तथाहि -द्विविधानि द्रव्याणि -भाव्यानि, अभाव्यानि च, तत्र भाव्यन्ते स्वप्रतियोगिना स्वगुणैरात्मभावमापाद्यन्त इति भाव्यानि, अथवा प्रतियोगिनि सति तद्गुणापेक्षया तथाभवनशीलानि भाव्यानि तद्विपरीतान्यभाव्यानि, तत्र जीवो भाव्यद्रव्यम् , अनादिकालीनपार्श्वस्थाद्याचरितप्रमादभावनाऽऽपाद्यविपरीतपरिणाम इतियावत् , स च तथाभूतः सन् कुशीलसंसर्गतो विनश्येत् , वैडूर्य-नडादीनि त्वभाव्यद्रव्याणीति न तदृष्टान्तोपष्टम्भेन जीवस्यापि संसर्गजस्वभावाननुविधायित्वमितिभावः । अपि च - जीवोऽपि केवली तावदभाव्य एव, अभव्योऽपि च, सरागास्तु पार्श्वस्थादिभिर्भाव्याः, सरागा अपि परिपाकप्राप्तयोगा उत्कृष्टज्ञानपरिणतिशालिनो यद्यप्यभाव्यास्तथापि मध्यमदशावर्तिनो भाव्या एव, अत स्तोकोऽपि तेषामालापमात्रादिलक्षणः संसर्गः सुविहितानां प्रतिषिद्धः । उक्तं च - "ऊणगसयभावेणं, बिंबाइं परिणमंति तब्भावं । लवणागराइसु जहा वज्जेह कुसीलसंसग्गि" ॥१॥ [आव.नि./१११८]
अस्या अर्थः -ऊनश्चासौ शतभागश्चोनशतभागो, यावता शतभागोऽपि न पूर्यत इत्यर्थः तेन तावतांशेन प्रतियोगिना सह सम्बद्धानीतिप्रक्रमाद् गम्यते, बिम्बानि -रूपाणि, परिणमन्ति तद्भावं लवणीभवन्तीत्यर्थः, लवणाकरादिषु यथा, आदिशब्दात् खण्डस्वादिकारसादिग्रहः, तत्र किल लोहमपि तद्भावमासादयति । तथा पार्श्वस्थाद्यालापमात्रसंसर्यापि सुविहितास्तमेव
D:\new/d-3.pm53rd proof