________________
७०४]
[धर्मसंग्रहः-तृतीयोऽधिकार: "सारणमाइविउत्तं, गच्छं पि हु गुणगणेण परिहीणं ।
परिवत्तणाइवग्गो, चएज्ज तं सुत्तविहिणा उ" ॥१॥ [ पञ्च./७०० ] स चापि गच्छस्तदा त्याज्यो यदा गच्छान्तरसंक्रान्तिर्भवति, अन्यथा त्वात्मरक्षाद्यर्थं गीतार्थेनापि सता प्रमादबहुलेऽपि गच्छे कारणवशादग्रहिलग्रहिलनृपेणेव स्थेयम् । अत्रायमुपदेशपदोक्तो विवेकः -
"अग्गीआदाइण्णे, खेत्ते अण्णत्थ ठिइअभावंमी।
भावाणुवघायणुवत्तणाए तेसिं तु वसिअव्वं" ॥१॥ [ उ.प./८४०] व्याख्या-अगीतार्थेरादिशब्दाद् गीतार्थैरपि पार्श्वस्थादिभिराकीर्णे क्षेत्रेऽन्यत्रागीतार्थाद्यनाकीर्णे क्षेत्रे दुर्भिक्षादिना स्थित्यभावे सति भावानुपघातेन –सम्यक्प्रज्ञापनारूपशुद्धसमाचारपालनरूपस्य भावस्यानुपघातेन याऽनुवर्त्तना 'वायाए' णमोक्कारो' इत्यादिरूपाऽनुवृत्तिस्तया तेषामेव क्षेत्रे वसितव्यम् , एवं तेऽनुवर्तिताः स्वात्मनि बहुमानवन्तः बहुमानवन्तः कृता भवन्ति दुर्भिक्षादिषु सहायकारिणश्चेति । अत्र दृष्टान्तमाह -
"एत्थं पुण आहरणं, विण्णेयं णायसंगयं एअं।
अगहिलगहिलो राया, बुद्धीए अणट्ठरज्जो अ" ॥१॥[उ.प./८४३] इति । ननु गुरुकुलवासेन गच्छवासो गतार्थ एव, गच्छस्य गुरुपरिवारत्वादिति पुनरुक्तमेतदिति चेत् , सत्यम् , एकगुरुविनयादिरीत्याऽन्येषामपि यथा विनयादिपरिपालनं स्यात् तथा गुरुकुलवास: कार्य इति ख्यापनार्थं गच्छवासस्य पृथगुपादानम् , अन्योऽन्योपकाराभावे त्वगच्छवासः । यतः पञ्चवस्तुके -
"मुत्तूण मिहुवयारं, अन्नोन्नगुणाइभावसंबंधं ।
छत्तमढछत्ततुल्लो वासो उणऽगच्छवासो उ" ॥१॥[ पञ्च./७०४] तथा 'कुसंसर्गत्याग' इति कुत्सितः साधुजनैर्निन्दनीयः-संसर्गः सहवासादिस्तस्य त्यागो –वर्जनम् , अन्वयः प्राग्वत् । कुसंसर्गश्च साधूनां पार्श्वस्थादिभिः पापमित्रैः सह सम्बन्धरूपः, तैः सहवासे हि स्वस्मिन्नपि तादृग्भावापत्तिरवश्यम्भाविनी । यतः -
"जो जारिसेण संगं, करेइ सो तारिसोऽचिरा होइ।
कुसुमेण सह वसंता, तिला वि तग्गंधया जाया" ॥१॥[पञ्च./७३१] तत एव पार्श्वस्थादिरिव पार्श्वस्थादिसंसर्गी अपि शास्त्रे गर्हणीयतयोक्ता(क्तः) । तथा चावश्यकम् -
१. C.P. पञ्चवस्तुके च । छन्न मु० ॥ २. L.P. । ततश्च पार्श्वस्थादिसंसर्गी-मु०॥
D:\new/d-3.pm53rd proof