________________
गच्छवासस्वरूपम् -श्लो० १२५॥]
[७०३ विधिनाऽधीतस्याविस्मरणार्थं घोषादिशुद्धं गुणनं परिवर्तना, अर्थाविस्मरणार्थं च तच्चिन्तनमनुप्रेक्षा, एवमभ्यस्तश्रुते धर्मस्य कथनं धर्मकथेति । तथा ध्यानं चतुर्विधमपि प्रतिक्रमणसूत्रविवरणे व्याख्यातम् , अत्र तु धन॑ शुक्लं चेति द्विविधं ग्राह्यम् , तथोत्सर्जनीयस्य त्याग उत्सर्गः, स च बाह्योऽभ्यन्तरश्चेति द्विविधस्तत्रातिरिक्तोपधेरशुद्धाद्याहारस्य च त्यागे आद्यः, अभ्यन्तरस्तु कषायाणां, मृत्युकाले शरीरस्य च त्यागः, अयं च प्रायश्चित्तमध्येऽतिचारविशुद्ध्यर्थमुक्तः, इह तु सामान्येन निर्जरार्थमित्यपौनरुक्त्यम् । इदं च षोढाऽभ्यन्तरं तपः, लोकैरनभिलक्ष्यत्वात् , तन्त्रान्तरीयैर्भावतोऽनासेव्यमानत्वात् मोक्षाप्तावन्तरङ्गत्वादभ्यन्तरकर्मतापकत्वाच्चेति । ___ अथ वीर्याचारास्त्रयो मनोवाक्कायव्यापाराः यथासामर्थ्यं धर्मविषये प्रवृत्ताः सन्तो भवन्तीति प्रदर्शिताः पञ्चाचाराः ।
साम्प्रतं सार्द्धश्लोकद्वयेन महाव्रतपालनोपायभूतान् सापेक्षयतिधर्मरूपानुष्ठानविशेषान् दर्शयन्नाह -'गच्छवास' इत्यादि, गच्छो -गुरुपरिवारः तस्मिन् वासो-वसनं सापेक्षयतिधर्मो भवतीत्यन्वयः । गच्छवासे हि केषाञ्चित् स्वतोऽधिकानां विनयकरणं भवति, अन्येषां च शैक्षकादीनां विनयस्य कारणं भवति, तथा विध्यादिकमुल्लङ्घ्य प्रवर्त्तमानेषु केषुचित्स्मारणं क्रियते, तथाविधे च स्वस्मिन् केचित् कुर्वन्ति, एवं द्विरूपं वारणादि द्रष्टव्यम् , एवं च परस्परापेक्षया विनयादियोगे प्रवर्त्तमानस्य गच्छवासिनोऽवश्यं मुक्तिसाधकत्वमिति गच्छवासोऽपि मुख्यो धर्मः । यतः पञ्चवस्तुके -
"गुरुपरिवारो गच्छो, तत्थ वसंताण णिज्जरा विउला । विणयाओ तह सारणमाईहिं ण दोसपडिवत्ती ॥१॥[पञ्च./६९६ ] अन्नोन्नाविक्खाए, जोगम्मि तहिं तहिं पयट्टतो।
णियमेण गच्छवासी, असंगपदगसाहगो णेओ" ॥२॥[पञ्च./६९९] इति । गच्छे स्मारणादिगुणयोगादेव तं त्यक्त्वा स्वेच्छया विचरतां ज्ञानादिहानिरुक्ता । तथा चौघनियुक्तिः
"जह सागरंमि मीणा, संखोहं सागरस्स असहंता । णिति तओ सुहकामी, णिग्गयमित्ता विणस्संति ॥१॥[ओ.नि./११६ ] एवं गच्छसमुद्दे, सारणमाईहि चोइआ संता।
णिति तओ सुहकामी, मीणा व जहा विणस्संति" ॥२॥[ओ.नि./११७] स्मारणादिवियुक्तस्तु गच्छस्त्याज्य एव, परमार्थतोऽगच्छत्वात् तस्य । आह च -
D:\new/d-3.pm53rd proof