________________
७०२]
[धर्मसंग्रह:-तृतीयोऽधिकारः _ 'अब्भासच्छणं' श्रुताद्यध्ययनं विनापि गुरुसमीपेऽवस्थानम् , 'कृतप्रतिकृतिश्च' कृते - भक्तादिनोपचारे प्रसन्ना गुरवः प्रतिकृति -प्रत्युपकारं सूत्रादिदानेन मे करिष्यन्ति, नो नामैकैव निर्जरेति भक्तादिदाने यत्नः कार्यः, श्रुतप्रापणादिकं निमित्तं कृत्वा श्रुतं प्रापितोऽहमनेनेति हेतोरित्यर्थः, विशेषेण विनये तस्य वर्तितव्यम् , शेषं स्पष्टम् । अथवा द्विपञ्चाशद्विधो विनयो यथा - "तित्थयर १ सिद्ध २ कुल ३ गण ४-संघ ५ किरिअ६, धम्म ७ नाण ८ नाणीणं ९। आयरिअ १० थेरु ११ वज्झाय १२-गणीणं १३ तेरस पयाइं ॥१॥
[दश.नि.३२५, प्र.सा.५४९] अणसायणा य १ भत्ती २, बहुमाणो ३ वण्णवायसंजलणा ४ । तित्थयराई तेरस, चउग्गुणा हुंति बावन्ना" ॥२॥ [ दश.नि.३२६, प्र.सा.५५० ] __ *व्यवहारभाष्ये तु ज्ञान-दर्शन-चारित्र-प्रतिरूपभेदाच्चतुर्थोक्तस्तथा च तद्ग्रन्थः "पडिरूवग्गहणेणं विणओ खलु सुचिओ चउविगप्पो नाणे दंसणे चरणे पडिरूवचउत्थओ होइ"[ ] त्ति तत्र कालेऽध्ययनादिरष्टविधो ज्ञानविनयः, निःशङ्कितादिरष्टविधो दर्शनविनयः, समितिगुप्तिभेदादष्टविधश्चारित्रविनयः, कायिको वाचिको मानसिक औपचारिकश्चेति प्रतिरूपविनयश्चतुर्विधः । आह च -
“पडिरूवो खलु विणओ, कायवइमणे तहेव उवयारे ।
अट्ठ चउविह दुविहो, सत्तविह परूवणा तस्स" ॥१॥[पु.मा./४०७] त्ति । कायिकोऽष्टधा यथा"अब्भुट्ठाणं अंजली, आसणदाणं अभिग्गह किईअ।
सुस्सूसणा य अभिगच्छणा य संसाहणा चेव" ॥[ पु.मा./४०८] ___ अभिग्रहो गुरुनियोगकरणाभिसम्बन्धः संसाधना गच्छतोऽनुव्रजनम् । वाग्विनयश्चतुर्विधो यथा – "हिअमिअफरुसभासी अणुवाईभासि वाइओ विणओ' [ ] 'अणुवाइ'त्ति अनुविचिन्त्यभाषी । मानसिको द्विविधो यथा - "अकुसलमणोनिरोहो कुसलमणउदिरणं चेव''[ ] त्ति औपचारिक: सप्तविधस्तूक्त एवेति*।
तथा वैयावृत्यं दशधा चरणसप्ततावुक्तम् , तथा सुष्ठु आ–मर्यादया कालवेलापरिहारेण पौरुष्यपेक्षया वाऽध्यायः -अध्ययनं स्वाध्यायः, स च वाचना-प्रच्छना-परिवर्तना-ऽनुप्रेक्षाधर्मकथाभेदात् पञ्चधा, तत्र वाचना शिष्याध्यापनम् , अधीतस्य शङ्कितादौ प्रश्नः प्रच्छना,
१. L.P. I * * चिह्नद्वयमध्यवतिपाठः मु० C. नास्ति ।
D:\new/d-3.pm5\3rd proof