________________
पञ्चाचारस्वरूपम् -श्लो० १२५॥]
[६९९ प्रक्षिप्यमाणेऽपि च यावन्नाद्यापि गिलति तावत्तृतीयोऽतिचारलक्षणो दोषः, गिलिते त्वाधाकर्मण्यनाचार इति । एवं च भावना मूलगुणेषु उत्तरगुणेषु च कार्या । अत्रायं विवेकः - मूलगुणेषु अतिक्रमादिभिस्त्रिभिश्चारित्रस्य मालिन्यम् , तस्य चालोचनप्रतिक्रमणादिभिः शुद्धिः, चतुर्थेण तु भङ्ग एव, तथा च सति पुनरुपस्थापनैव युज्यते, उत्तरगुणेषु तु चतुभिरपि चारित्रस्य मालिन्यं, न पुनर्भङ्गम् इत्युक्ता मूलोत्तरगुणातिचाराः ॥१२४।।
साम्प्रतं मूलगुणेषूक्तप्रायाणामपि ज्ञानाद्याचाराणां मुख्यत्वख्यापनार्थं तत्पालनस्य स्वातन्त्र्येणाभिधित्सयाह -
ज्ञानादिपञ्चाचाराणां पालनं च यथागमम् ।
गच्छवासकुसंसर्गत्यागोऽर्थपदचिन्तनम् ॥१२५॥ ज्ञानादयो -ज्ञान-दर्शन-चारित्र-तपो-वीर्यरूपास्ते च ते पञ्चाचाराश्च तेषां पालनम्' आराधनं तच्चान्यथापि स्यादित्यत आह -'यथागमम्' इति आगमानुसारेण तत् सापेक्षयतिधर्मो भवतीत्यन्वयः । तत्र ज्ञानं सम्यक्तत्त्वावबोधस्तद्धेतुत्वादत्र द्वादशाङ्गादिकं श्रुतज्ञानं गृह्यते, दर्शनं सम्यक्श्रद्धानम् , चारित्रं सर्वसावद्ययोगानां ज्ञानश्रद्धानपूर्वकं त्यागः, तप इच्छानिरोधलक्षणम् , वीर्यं च शक्तिस्फोरणम् , एषु ज्ञान-दर्शन-चारित्राचाराः प्रत्येकमष्ट, ते च प्राक् देशनाधिकारे धर्मबिन्दुपाठेन दर्शिता एव तपआचाराश्च द्वादश, तत्र षट् बाह्याः षट् आभ्यन्तराश्च, तत्र बाह्याः षट् यथा -
"अणसणमूणोअरिआ, वित्तीसंखेवणं रसच्चाओ।
कायकिलेसो संलीणया य बज्झो तवो होइ" ॥१॥[ दशवै.नि./४७] अनशनमाहारत्याग इत्यर्थस्तत्पुनद्विधा -इत्वरं यावत्कथिकं च, इत्वरं नमस्कारसहितादि श्रीवीरतीर्थे षाण्मासिकान्तम् , श्रीनाभेयतीर्थे संवत्सरपर्यन्तम् , मध्यमतीर्थकरतीर्थेषु त्वष्टौ मासान् , यावत्थकथिकं तु पादपोगपगमनमिङ्गितमरणं भक्तपरिज्ञा चेति, एषां च स्वरूपं मूल एव स्फुटीभविष्यति । तथा ऊनमवममुदरं यस्य स ऊनोदरस्तस्य भाव ऊनोदरता, व्युत्पत्तिरेवेयम् , अस्य प्रवृत्तिस्तूनतामात्रे, सा द्रव्यभावाभ्यां द्विधा, तत्र - द्रव्यत उपकरणभक्तपानविषया, तत्रोपकरणविषया, जिनकल्पिकादीनाम् , भक्तपानविषया चाल्पाहारादिभेदतः पञ्चविधा । यदाहुः -
"अप्पाहार १ अवड्डा २, दुभाग ३ पत्ता ४ तहेव किंचूणा ५ ।
अट्ठ दुवालस सोलस, चउवीस तहेक्कतीसा य " ॥१॥[अ.स.सी./४] १. L.P. । तद्विपरीताश्च त मु० C. ॥ २. तुला-दशवैकालिकहारिभद्रीयवृत्तिः नियुक्ति गा० ४७, प्रवचनसारोद्धारटीका भा० १ प० १७३ ।।
D:\new/d-3.pm53rd proof