________________
चतुर्थ-पञ्चमव्रतातिचारस्वरूपम् - श्लो० १२२/१२३॥]
[ ६९७
'ब्रह्मव्रते' मैथुनव्रते अतिचारः तुशब्दो विशेषणार्थः, करकर्मादिः, तथा च परिणामवैचित्र्येण ‘तदीयगुप्तीनां' तस्य -ब्रह्मव्रतस्येमास्तदीयास्ताश्च ता गुप्तयश्च - स्त्र्यादिसंसक्तवसतित्यागादिरूपास्तासां 'सम्यक्' भावशुद्धया 'अननुपालनम्' अनाचरणं भवतीति सम्बन्धः । यतः -
"मेहुणस्सइआरो, करकम्माई उ होइ णायव्वो ।
गुत्तीणं च तहा, अणुपालणमो ण सम्मं तु" ॥१॥[पञ्च./६५९ ] ॥१२२॥ इत्युक्तास्तुर्यव्रतातिचाराः । अथ पञ्चमस्य तानाह -
1
काकादिरक्षणं बालममत्वं पञ्चमेऽप्यणुः । द्रव्यादिग्रहणं लोभात्, स्थूलश्चाधिकधारणम् ॥१२३॥
'पञ्चमेऽपि' परिग्रहव्रते न केवलं पूर्वेष्वित्यपिशब्दार्थः, काको - ध्वाङ्क्ष आदिशब्दात् श्व-गोणादिग्रहणम्, तेभ्यो रक्षणम् - आहारादेर्यत्नेन स्थापनम्, तथा 'बालममत्वं' लघौ शिष्ये ममत्वकरणं मनागितिगम्यम्, एषः 'अणुः' अतिचारो भवतीति योज्यम् । तथा ‘लोभात्’ लोभपरिणामात् 'द्रव्यादीनां' हिरण्यादीनां 'ग्रहणम्' उपादानं 'चः' पुनरधिकधारणम् –उपधेर्गणनपरिमाणाभ्यामतिरिक्तस्य धारणं - सङ्ग्रहः बादरो भवतीति, तत्रज्ञानाद्युपकरणं मुक्त्वा इति ज्ञेयम्, तस्य ह्यधिकत्वेऽपि न दोषः । यतः "पंचमगंमि अ सुहुमो, अइआरो एस होइ णायव्वो ।
कागाइसाणरक्खण, कप्पट्ठगरक्खणममत्ते" ॥१॥ [पञ्च./६६० ] कल्पस्थको - बाल इति तद्वृत्तिः ।
44
'दव्वाइआण गहणं, लोभा पुण बायरो मुणेअव्वो ।
—
अइरित्तधारणं वा, मोत्तुं णाणाइ उवयारं" ॥१॥ [ पञ्च./६६१ ] इति । अत्रायं भावः - निष्कारणं द्रव्यग्रहणपरिणामेऽतिचारः, कारणे तु ग्रहणेऽपि नातिचार इति । यत उक्तं स्थानाङ्गे बृहत्कल्पे च -
'अट्ठजायंमि समणि णिग्गंथिं णिग्गंथे गिण्हमाणे वा अवलंबमाणे वा णाइक्कमइ' [ बृहत्कल्प उ० ६। सू०१८ ]त्ति ।
अर्थो - द्रव्यं तेन जातं - प्रयोजनं यस्याः साऽर्थजातिका तामिति व्याख्यानं [संयमस्थिताया अपि ह्यर्थजातमुत्पद्यते एभिः स्थानैः । तदुक्तं कल्पनिर्युक्तौ – "सेवगभज्जा ओमे, आवण्ण अणत्त बोहिए तेणे ।
एएहिं अट्ठजायं, उप्पज्जइ संजमठियाए" ॥१॥ [ बृ.क.नि./६२८७ ]
D:\new/d-3.pm5\3rd proof