________________
६९६]
[धर्मसंग्रहः-तृतीयोऽधिकारः ____द्वितीयके' मृषावादविरतिरूपे असौ' अतिचारः 'अणु-स्थूलाभ्यां' सूक्ष्म-बादराभ्यां प्रकाराभ्यां 'द्विधा' द्विप्रकारो भवतीति शेषः । तत्र 'आद्यः' सूक्ष्मः 'प्रचलादितो' निद्राविशेषादेमिथ्याभाषा -असत्यभाषणं भवति, यथा प्रचलसि किं दिवा? इत्यादि चोदितः प्राह -नाऽहं प्रचलामि'इत्यादि । क्रोधादेः -क्रोध-लोभ-हास्य-भयैमिथ्याभाषा द्वितीयोबादर: परिणामभेदाद् भवतीति । यतः पञ्चवस्तुके -
"बीअं मुसावाए, सो सुहुमो बायरो अ णायव्वो।
पयलाइ होड़ पढमो.कोहादभिभासणं बीओ"॥ पञ्च./१५६]॥१२०॥ इत्युक्ता द्वितीयव्रतातिचाराः, अथ तृतीयस्य तानाह -
एवं तृतीयेऽदत्तस्य, तृणादेर्ग्रहणादणुः ।
क्रोधादिभिर्बादरोऽन्यसचित्ताद्यपहारतः ॥१२१॥ ‘एवं' पूर्वोक्तरीत्या सूक्ष्म-बादरभेदेन द्विविध इत्यर्थः, 'तृतीये' अस्तेयव्रते प्रक्रमादतिचारो भवतीति शेषः । तत्र 'अणुः' सूक्ष्मः 'अदत्तस्य' स्वाम्यादिनाऽप्रदत्तस्य 'तृणादेर्ग्रहणाद्' अनाभोगेनाङ्गीकरणाद् भवति, तत्र तृणं प्रसिद्धम् , आदिशब्दाड्डगलच्छार-मल्लकादेरुपादानम् , अनाभोगेन तृणादि गृह्णतोऽतिचारो भवति, आभोगेन त्वनाचार इति भावः । तथा 'क्रोधादिभिः' कषायैः ‘अन्येषां' सार्मिकाणां चरकादीनां गृहस्थानां वा सम्बन्धि सचित्तादि' सचित्ता-ऽचित्त-मिश्रवस्तु तस्यापहारतः -अपहरणपरिणामाद् बादरोऽतिचारो भवतीति सम्बन्धः । यतः -
"तइअंमि वि एमेव य, दुविहो खलु एस होइ विण्णेओ।
तण-डगल-छार-मल्लग, अविदिन्नं गिण्हओ पढमं" ॥१॥[पञ्च./६५७] अनाभोगेनेति तवृत्तिलेशः । । "साहम्मिअन्नसाहम्मिआण गिहिआण कोहमाईहिं।
सच्चित्ताइ अवहरओ, परीणामो होइ बीओ उ" ॥१॥[पञ्च./६५८ ] साधर्मिकाणां -साधु-साध्वीनाम् , अन्यसधर्माणां -चरकादीनामिति तवृत्तिरिति ॥१२१॥ उक्तास्तृतीयव्रतातिचाराः, अत्र चतुर्थस्य तानाह -
ब्रह्मव्रतेऽतिचारस्तु , करकर्मादिको मतः ।
सम्यक् तदीयगुप्तीनां, तथा चाननुपालनम् ॥१२२॥ १. ना अननुज्ञातस्य-L.P. ||
D:\new/d-3.pm5\3rd proof