________________
प्रथम-द्वितीयव्रतातिचारस्वरूपम् -श्लो० ११९/१२०॥]
[६९५ शयनासननिक्षेपादानचङ्क्रमणेषु च ।
स्थानेषु चेष्टानियमः, कायगुप्तिस्तु सा परा" ॥२॥ [यो.शा.१/४४] तथाऽभिग्रहा द्रव्य-क्षेत्र-काल-भावविषयाश्चतुर्विधा, इत्येतद्भेदकदम्बकं क्रियते - मोक्षार्थिभिः साधुभिर्निष्पाद्यते इति 'करणं' करणसंज्ञं भवति, एते भेदाः सप्ततिसङ्ख्या : करणसप्ततिसंज्ञाः स्युरित्यर्थः । करणं च प्रयोजने आपन्ने सति क्रियते चरणं तु नित्यानुष्ठानमिति चरण-करणयोर्भेदः, अत्राप्ययं विवेकः -एषणासमितौ गतार्थत्वेऽपि पिण्डविशुद्धेः पृथगुपादानं शेषभेदेषु तस्याः प्राधान्यज्ञापनार्थमिति, उक्ता मूलगुणा उत्तरगुणाश्च । अथ तच्छेषमतिचाररक्षणलक्षणं प्रस्तुतधर्मं प्रस्तौति –'एषामि'त्यादि, 'एषां' मूलगुणोत्तरगुणानां, कीदृशानाम् ?-'अनतिचाराणां' न विद्यतेऽतिचारा येषु ते (तथा) तेषामतिचाररहितानामित्यर्थः पालनं-धारणं सापेक्षयतिधर्मो भवतीत्यन्वयः । अनतिचाराणामेषां पालनोक्त्याऽतिचारज्ञानस्यावश्यकत्वात्तानेवाह -'ते त्वमी'ति, ते' अतिचाराः, तुशब्दः पूर्वस्माद् विशेषणार्थः, 'अमी' वक्ष्यमाणा 'मता' उक्ता जिनैरिति शेषः ॥११८॥ साम्प्रतं तानेव प्रतिव्रतं दर्शयितुकामः प्रथममहिंसाव्रतातिचारानाह -
आद्यव्रते ह्यतिचारा, एकाक्षादिवपुष्मताम् ।
सङ्गट्टपरितापोपद्रावणाद्याः स्मृता जिनैः ॥११९॥ एकं स्पर्शनलक्षणमिन्द्रियं येषां ते एकाक्षा:-पृथिव्यादयः पञ्च, आदिशब्दाद् द्वि-त्रिचतुष्पञ्चेन्द्रियग्रहः, तथा वपुः-शरीरं वर्तते येषां ते वपुष्मन्तो -देहिनस्तत एकाक्षादयश्च ते वपुष्मन्तश्चेति समासस्तेषामेकेन्द्रियादिजन्तूनामित्यर्थः 'सङ्घट्टः' स्पर्शः 'परितापः' परितस्तापोत्पादनम् 'उपद्रावणं' महत्पीडाकरणं तदाद्या अतिचाराः -पूर्वोक्तस्वरूपाः आद्यव्रते -अहिंसाख्ये 'जिनैः' अर्हद्भिः स्मृताः' प्रोक्ता इत्यन्वयः । तदुक्तं पञ्चवस्तुके
"पढमंमी एगिदिअविगलिंदिपणिदिआण जीवाणं ।
संघट्टणपरिआवणमुद्दवणाईणि अइआरा" ॥१॥[पञ्च./६५५] ॥११९।। इत्युक्ता आद्यव्रतातिचाराः, अथ द्वितीयव्रतस्य तानाह -
असौ द्विधाणु-स्थूलाभ्यां, तत्राद्यः प्रचलादितः । द्वितीयः क्रोध-लोभादेर्मिथ्याभाषा द्वितीयके ॥१२०॥ १. तथा-L.P.C. नास्ति ।। २. L.P.C. | अतिचा मु० ॥ ३. L.P. | साम्प्रतं-मु० C. नास्ति ।। ४. P. उपद्रापणं-मु० C. ॥
D:\new/d-3.pm5\3rd proof