________________
६९४] [ धर्मसंग्रहः - तृतीयोऽधिकारः विषयेभ्यो निवर्त्तनम् इष्टानिष्टविषयेषु रागद्वेषाभाव इत्यर्थः । तथा प्रतिलेखनाः प्रत्युपेक्षणास्ताश्च वस्त्रादिविषयाः पञ्चविंशतिर्व्याख्यातपूर्वाः । तथा गुप्तिर्गोपनमात्मसंरक्षणं मुमुक्षोर्योगनिग्रह इत्यर्थः, ताश्च मनोवाक्कायविषयभेदात् तिस्रः, तत्र मनोगुप्तिस्त्रिधा, आर्त्त-रौद्रध्यानानुबन्धिकल्पनाजालवियोग: प्रथमा १, शास्त्रानुसारिणी परलोकसाधिका धर्मध्यानानुबन्धिनी माध्यस्थ्यपरिणतिर्द्वितीया २, कुशला - ऽकुशलमनोवृत्तिनिरोधेन योगनिरोधावस्थाभाविन्यात्मारामता तृतीया ३, तदुक्तं विशेषणत्रयेण योगशास्त्रे -
"विमुक्तकल्पनाजालं, समत्वे सुप्रतिष्ठितम् ।
आत्मारामं मनस्तज्ज्ञैर्मनोगुप्तिरुदाहृता" ॥१॥ [यो.शा. १ / ४१ ] एवंविधं मनोगुप्तिरित्यर्थः । वाग्गुप्तिर्द्विधा - मुखनयन भ्रूविकारा-ऽङ्गुल्याच्छोटन - लेष्टुक्षेप-हुङ्कृतादिसंज्ञावर्जनेन मौनावलम्बनम्, संज्ञादिना हि प्रयोजनानि सूचयतो मौनं निष्फलमेवेत्येका १, वाचन - प्रच्छन- परपृष्टव्याकरणादिषु लोका - ऽऽगमाविरोधेन मुखवस्त्रिकाच्छादितमुखस्य भाषमाणस्यापि वाग्नियन्त्रणं द्वितीया । तदुक्तं – 'संज्ञादिपरिहारेण, यन्मौनस्यावलम्बनम् ।
44
वाग्वृत्तेः संवृतिर्वा या, सा वाग्गुप्तिरिहोच्यते" ॥१॥ [ यो.शा.१/४२ ] आभ्यां भेदाभ्यां वाग्गुप्तेः सर्वथा वाग्निरोधः सम्यग्भाषणं च स्वरूपं प्रतिपादितं भवति, भाषासमितौ तु सम्यग्वाक्प्रवृत्तिरेवेति वाग्गुप्तिभाषासमित्योर्भेदः । यदाह - "समिओ निअमा गुत्तो, गुत्तो समिअत्तणंमि भयणिज्जो । कुसलवयमुईरंतो, जं वइगुत्तो वि समिओ वि" ॥१॥
[ उ.प.६०५, बृह.भा. ४४५१, निशीथभा. ३७ ] इति । अथ कायगुप्तिरपि द्विधा - चेष्टानिवृत्तिलक्षणा यथागमं चेष्टानियमलक्षणा च तत्र परीषहोपसर्गादिसम्भवेऽपि यत्कायोत्सर्गकरणादिना कायस्य निश्चलताकरणं सर्वयोगनिरोधावस्थायां वा सर्वथा यत्कायचेष्टानिरोधनं सा प्रथमा १, गुरुमापृच्छ्य शरीर-संस्तारकभूम्यादिप्रतिलेखनाप्रमार्जनादिसमयोक्तक्रियाकलापपुरस्सरं शयनासनादि साधुना विधेयम्, ततः शयना - Ssसन - निक्षेपा - ऽऽदानादिषु स्वच्छन्दचेष्टापरिहारेण नियता या कायचेष्टा सा द्वितीयेति २ । उक्तं च
"उपसर्गप्रसङ्गेऽपि, कायोत्सर्गजुषो मुनेः ।
स्थिरीभावः शरीरस्य, कायगुप्तिर्निगद्यते ॥१॥ [ यो.शा. १/४३ ]
D:\new/d-3.pm5\ 3rd proof