SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ करणसित्तरिस्वरूपम्, १२ भिक्षुप्रतिमास्वरूपम् - श्लो० ११८ ॥ ] [ ६९३ अपानकेनैकान्तरोपवासेनेत्यर्थः, इह च पारणके आचाम्लम्, दत्तिनियमस्तु नास्ति “उत्ताणगपासल्ली, नेसज्जी वा वि ठाण ठाइत्ता । सहउवसग्गे घोरे, दिव्वाई तत्थ अविकंपो" ॥४॥ [ पञ्चा. १८/१५, प्रव. ५८३ ] उत्तानशायी पार्श्वशयितो निषद्यावान् वा-समपुततयोपविष्टः स्थानस्थितो वोर्ध्वं स्थितः । "दोच्चा वि एरिस च्चिअ, बहिआ गामाइआण णवरं तु । उक्कडलगंडसाई, दंडायतिउ व्व ठाइत्ता" ॥५॥ [ पञ्चा. १८ / १६, प्रव. ५८४ ] नवरम् उत्कटस्तिष्ठेत् तथा 'लकुटशायी' मस्तकपाष्णिकाभिरेव पृष्ठप्रदेशेनैव वा स्पृष्टभूभागस्तथा दण्डायतोऽङ्घ्रिप्रसारणेन भून्यस्तायतशरीरः, एवं स्थित्वाऽवस्थाय - 'तच्चाए वि एवं, णवरं ठाणं तु तस्स गोदोही । वीरासणमह ठाणं, ठाइज्ज व अंबरवुज्जो उ' ॥६॥ [ पञ्चा. १८/१७, प्रव. ५८५ ] 44 - ‘वीरासनं' च सिंहासनाधिरूढस्य भून्यस्तपादस्य सिंहासनापनयने सत्यचलितस्य भवति, अथवाऽऽम्रकुब्जः आम्रफलवद्वक्राकारेणावस्थित इति एतास्तिस्रः सप्त(एक) विंशत्या दिनैर्यान्तीति । "एमेव अहोराई, छटुं भत्तं अपाणगं नवरं । गामनगराण बहिआ, वग्धारिअपाणिए ठाणं" ॥७॥ [ पञ्चा. १८/१८, प्रव.५८६ ] नवरं षष्ठं भक्तं – भोजनं वर्जनीयतया यत्र तत्षष्ठभक्तमुपवासद्वयरूपम्, तत्र ह्युपवासद्वये चत्वारि भक्तानि वर्ज्यन्ते एकाशनेन च तदारभ्यते तेनैव च निष्ठां यातीत्येवं षड्भक्तवर्जनरूपं तदिति । इयं चाहोरात्रिकी दिनत्रयेण याति, अहोरात्रस्यान्ते षष्ठभक्तकरणाद् । यदाह - “ अहोराइआ तहिं पच्छा छटुं करेइ त्ति [ ] । एमेव एगराई, अट्ठमभत्तेण ठाण बाहिरओ । ईसीपब्भारगए, अणमिसनयणेगदिट्ठीए" ॥८॥ [ पञ्चा. १८/१९, प्रव. ५८७ ] अस्यां चावध्याद्यन्यतरज्ञानलाभ:, इयं च प्रतिमा रात्रेरनन्तरमष्टमकरणेन चतूरात्रिन्दिवसमाना स्याद्यदाह –‘“एगराइआ चउहिं पच्छा अट्टमं करेइ त्ति" [ ] द्वादश प्रतिमाः ॥ तथा, इन्द्रियाणां - स्पर्शन - रसन - घ्राण - चक्षुः - श्रोत्ररूपाणां निरोधः - स्वस्व १. पाष्णिकाभिरेव-इति पञ्चा० वृत्तौ ॥ २. एकविं इति पञ्चाशकवृत्तिः २ तुला - पञ्चाशकटीका १८।१८ ।। ३. प्रवचनसारोद्धारवृत्तिः भा० १ प० ४७९ ।। ४. करणाच्चतू' इति पञ्चाशक-प्रवचनसारोद्धारवृत्त्योः ॥ D:\new/d-3.pm5\ 3rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy