________________
६९२]
[धर्मसंग्रह:-तृतीयोऽधिकारः चातुर्मासिकी पञ्चमासिकी षाण्मासिकी सप्तमासिकी, प्रथमसप्तरात्रिन्दिवा द्वितीयसप्तराविन्दिवा तृतीयसप्तरात्रिन्दिवा अहोरात्रिकी एकरात्रिकी चेति द्वादश । यतः - "मासाइसत्तंता, पढमाबिइतइअसत्तरायदिणा । अहराइ एगराई भिक्खूपडिमाण बारसगं" ॥१॥[पञ्चा.१८॥३, प्रव.५७४] इति ।
अयमासां भावार्थ:-भिक्षुः प्रतिमाः प्रतिपिपत्सुः प्रथमं जिनकल्पिकवत् पञ्चविधां तुलनां करोति, ततश्च योग्यः सन् प्रतिपद्यते । तद्यथा - "पडिवज्जइ संपुण्णो, संघयणधिईजुओ महासत्तो । पडिमाओ जिणमयंमी, सम्मं गुरुणा अणुण्णाओ ॥१॥[पञ्चा.१८/४, प्रव.५७५ ] गच्छे चिअ निम्माओ, जा पुव्वा दस भवे असंपुण्णा। नवमस्स तइअवत्थु , होइ जहण्णो सुआभिगमो" ॥२॥ [ पञ्चा.१८/५, प्रव.५७६ ]
गच्छ एव तिष्ठन् निर्मातः -आहारादिविषये प्रतिमाकल्पपरिकर्मणि परिनिष्ठितः, तत्परिमाणं चैवम् –मासिक्यादिषु सप्तसु या यत्परिमाणा तस्यास्तत्परिमाणमेव परिकर्म, तथा वर्षासु नैताः प्रतिपद्यन्ते, न वा परिकर्म, करोति, तत्राद्यद्वयमेकत्रैव वर्षे, तृतीयचतुर्थ्यावेकैकस्मिन् वर्षे, अन्यासां तु तिसृणामन्यत्र वर्षे प्रतिकर्म, अन्यत्र च प्रतिपत्तिरिति नवभिर्वराद्याः सप्त समाप्यन्त इति । "वोसट्ठचत्तदेहो, उवसग्गसहो जहेव जिणकप्पी। एसण अभिग्गहीआ, भत्तं च अलेवयं तस्स" ॥१॥[पञ्चा.१८/६, प्रव.५७७]
उद्धृताद्येषणापञ्चकमध्यादेकस्मिन् दिने एषणाद्विकग्रहणं एका भक्ते एका च पानक इति, भक्तं चालेपकृत् । गच्छा विणिक्खमित्ता, पडिवज्जे मासिअं महापडिमं । दत्तेगभोअणस्सा, पाणस्स वि एग जा मासा ॥१॥[पञ्चा.१८/७, प्रव.५७८] पच्छा गच्छमुवेइ, एव दुमासी तिमासि जा सत्त । नवरं दत्तीवुड्डी, जा सत्त उ सत्तमासीए ॥२॥ [ पञ्चा.१८/१३, प्रव.५८१] तत्तो अ अट्ठमीआ, हवई हुं पढमसत्तराइंदी। तीए चउत्थएणं, बहिआ गामस्स अह विसेसो" ॥३॥[पञ्चा.१८/१४, प्रव.५८२]
१. तुला-दशाश्रुतस्कन्धे दशा ७ प० ४४ ॥ २. तुला-पञ्चाशकटीका प० २७९, प्रवचनसारोद्धारटीका भा० ११ प० ४७१ ॥ ३. 'मईइ-इति पञ्चाशके, अत्येति इति तत्र वृत्तौ ॥ ४. P.C. पञ्चाशकप्र० । य-मु०॥
D:\new/d-3.pm5\3rd proof