SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ करणसप्ततिस्वरूपम् , १२भावनास्वरूपम् -श्लो० ११८॥] [६९१ सर्वे भावाः सर्वजीवैः, प्राप्तपूर्वा अनन्तशः । बोधिर्न जातुचित् प्राप्ता, भवभ्रमणदर्शनात्" ॥५॥[ ] अथ धर्मस्वाख्यातताभावना यथा - "स्वाख्यातः खलु धर्मोऽयं, भगवद्भिर्जिनोत्तमैः । __यं समालम्बमानो हि, न मज्जेद् भवसागरे" ॥१॥ [यो.शा.४/९२] स्वाख्याततामेवाह "संयमः सूनृतं शौचं, ब्रह्माकिञ्चनता तपः । क्षान्तिर्मार्दवमृदुता, मुक्तिश्च दशधा स तु" ॥२॥ [ यो.शा.४/९३] अत्रायं भावः -संयमादिदशविधधर्मप्रतिपादनप्रकारेण भगवतामर्हतां स्वाख्यातधर्मत्वानुप्रेक्षणमेवेति धर्माणां गुणभावना, तदाख्यातॄणां भगवतामनुप्रेक्षानिमित्तं स्तुतिरिति, तथा च धर्मकथकोऽर्हन्निति भावनेत्येव पर्यवसन्नम् । तथा – "पूर्वापरविरुद्धानि, हिंसादेः कारकाणि च । वचांसि चित्ररूपाणि, व्याकुर्वद्भिर्निजेच्छया ॥३॥ [ द्वा.भा./१२६ ] कुतीर्थिकैः प्रणीतस्य, सद्गतिप्रतिपन्थिनः । धर्मस्य सकलस्यापि, कथं स्वाख्यातता भवेत् ? ॥४॥ [ द्वा.भा./१२७ ] यच्च तत्समये क्वापि, दयासत्यादिपोषणम् । दृश्यते तद्वचोमानं, बुधैर्जेयं न तत्त्वतः ॥५॥ [ द्वा.भा./१२८] यत्प्रोद्दाममदान्धसिन्धुरघटं साम्राज्यमासाद्यते, यन्निःशेषजनप्रमोदजनकं संपद्यते वैभवम् । यत्पूर्णेन्दुसमद्युतिर्गुणगणः संप्राप्यते यत्परं; सौभाग्यं च विजृम्भते तदखिलं धर्मस्य लीलायितम् ॥६॥[ द्वा.भा./१२९] यन्न प्लावयति क्षितिं जलनिधिः कल्लोलमालाकुलो, यत्पृथ्वीमखिलां धिनोति सलिलासारेण धाराधरः । यच्चन्द्रोष्णरुची जगत्युदयतः सर्वान्धकारच्छिदे; तन्निःशेषमपि ध्रुवं विजयते धर्मस्य विस्फूर्जितम् ॥७॥ [ द्वा.भा./१३०] अर्हता कथितो धर्मः, सत्योऽयमिति भावयन् । सर्वसंपत्करेधर्मे, धीमान् दृढतरो भवेत्" ॥८॥[द्वा.भा./१३२] इति भावनाः ॥ प्रतिमाः -प्रतिज्ञा अभिग्रहप्रकारा इत्यर्थः, ताश्च मासिकी द्वैमासिकी त्रैमासिकी D:\new/d-3.pm53rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy