SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ ६९० ] स्थितिप्रभावलेश्याभिर्विशुद्ध्यवधिदीप्तिभिः । सुखादिभिश्च सौधर्माद्यावत्सर्वार्थसिद्धिकम् ॥५१॥ [ द्वा.भा./१०९] पूर्वपूर्वत्रिदशेभ्यस्तेऽधिका उत्तरोत्तरे । [ धर्मसंग्रहः - तृतीयोऽधिकारः हीनहीनतरा देहगतिगर्वपरिग्रहैः ॥५२॥ [ द्वा.भा./११०] घनोदधिप्रतिष्ठाना, विमानाः कल्पयोर्द्वयोः । त्रिषु वायुप्रतिष्ठानास्त्रिषु वायूदधिस्थिताः ॥५३॥ [ द्वा.भा./१११ ] ते व्योमविहितस्थानाः, सर्वेऽप्युपरिवर्त्तिनः । इत्यूर्ध्वलोकविमानप्रतिष्ठानविधिः स्मृतः ॥५४॥ [ द्वा.भा. / ११२] सर्वार्थसिद्धाद् द्वादशयोजनेषु हिमोज्ज्वला । योजनपञ्चचत्वारिंशल्लक्षायामविस्तरा ॥५५॥ [ द्वा.भा./११३] मध्येऽष्टयोजनपिण्डा, शुद्धस्फटिकनिर्मला । सिद्धशिलेषत्प्राग्भारा, प्रसिद्धा जिनशासने ॥५६॥ [ द्वा.भा./ ११४] तस्या उपरि गव्यूतत्रितयेऽतिगते सति । तुर्यगव्यूतषड्भागे, स्थिताः सिद्धा निरामयाः ॥५७॥ [ द्वा.भा./११५ ] अनन्तसुखविज्ञानवीर्यसद्दर्शनाः सदा । लोकान्तस्पर्शिनोऽन्योऽन्यावगाढा: शाश्वताश्च ते ॥५८॥ [ द्वा.भा./ ११६] एवं भव्यजनस्य लोकविषयामभ्यस्यतो भावनां, संसारैकनिबन्धने न विषयग्रामे मनो धावति । किन्त्वन्यान्यपदार्थभावनसमुन्मीलत्प्रबोधोद्धुरं; धर्मध्यानविधाविह स्थिरतरं तज्जायते सन्ततम् " ॥५९॥ [ ] अथ बोधिदुर्लभत्वभावना "अकामनिर्जरारूपात्, पुण्याज्जन्तोः प्रजायते । स्थावरत्वात् त्रसत्वं वा, तिर्यक्त्वं वा कथञ्चन ॥ १ ॥ [ यो. शा. ४ / १०७ ] मानुष्यमार्यदेशश्च, जातिः सर्वाक्षपाटवम् । दीर्घायुः प्राप्यते तत्र, कथञ्चित् कर्मलाघवात् ॥२॥ [ यो.शा.४/१०८ ] प्राप्तेषु पुण्यतः श्रद्धा- कथक श्रवणेष्वपि । तत्त्वनिश्चयरूपं तत्, बोधिरत्नं सुदुर्लभम् ॥३॥ [ यो.शा. ४ / १०९ ] राज्यं वा चक्रभृत्त्वं वा, शक्रत्वं वा न दुर्लभम् । यथा जिनप्रवचने, बोधिरत्यन्तदुर्लभा ॥४॥ [ ] १. आयुश्च प्रा यो० शा०मु० ॥ D:\new/d-3.pm5\3rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy