________________
करणसप्ततिस्वरूपम् , १२भावनास्वरूपम् -श्लो० ११८॥]
[६८९ धातकीखण्डके चन्द्राः, सूर्याश्च द्वादशैव हि । कालोदे द्विचत्वारिंशच्चन्द्राः सूर्याश्च कीर्तिताः ॥३८॥ [द्वा.भा./९६ ] पुष्करा॰ द्विसप्ततिश्चन्द्राः सूर्याश्च मानुषे । क्षेत्रे द्वात्रिंशमिन्दूनां, सूर्याणां च शतं भवेत् ॥३९॥[ द्वा.भा./९७] मानुषोत्तरतः पञ्चाशद्योजनसहस्रकैः । सूर्यैरन्तरिताश्चन्द्राश्चन्द्रैरन्तरिताश्च ते ॥४०॥ [ द्वा.भा./९८] मानुषक्षेत्रचन्द्रार्कप्रमाणार्द्धप्रमाणकाः । तत्क्षेत्रपरिधेर्वृद्धया, वृद्धिमन्तः स्वसङ्ख्यया ॥४१॥ [ द्वा.भा./९९] स्वयम्भूरमणं व्याप्य, घण्टाकारा असङ्ख्यकः । शुभलेश्या मन्दलेश्यास्तिष्ठन्ति सततं स्थिराः ॥४२॥ [द्वा.भा./१००] समभूमितलादूर्ध्वं, सार्द्धरज्जौ व्यवस्थितौ ।। कल्पावनल्पसंपत्ती, सौधर्मेशाननामकौ ॥४३॥ [ द्वा.भा./१०१] सार्द्ध रज्जुद्वये स्यातां, समानौ दक्षिणोत्तरौ । सनत्कुमारमाहेन्द्रौ, देवलोकौ मनोहरौ ॥४४॥ [ द्वा.भा./१०२] ऊर्ध्वलोकस्य मध्ये च, ब्रह्मलोकः प्रकीर्तितः । तदूर्ध्वं लान्तकः कल्पो, महाशुक्रस्ततः परम् ॥४५॥ [ द्वा.भा./१०३] देवलोकः सहस्रारोऽथाष्टमो रज्जुपञ्चके। एकेन्द्रौ चन्द्रववृत्तावानतप्राणतौ ततः ॥४६॥ [ द्वा.भा./१०४] रज्जुषट्के ततः ख्यातावेकेन्द्रावारणाच्युतौ । चन्द्रवद्वर्तुलावेवं, कल्पा द्वादश कीर्तिताः ॥४७॥ [ द्वा.भा./१०५ ] ग्रैवेयकास्त्रयोऽधस्त्यास्त्रयो मध्यकास्तथा । त्रयश्चोपरितनाः स्युरिति ग्रैवेयका नव ॥४८॥ [ द्वा.भा./१०६] अनुत्तरविमानानि, तदूर्ध्वं पञ्च तत्र च । प्राच्यां विजयमपाच्यां, वैजयन्तं प्रचक्षते ॥४९॥ [ द्वा.भा./१०७] प्रतीच्यां तु जयन्ताख्यमुदीच्यामपराजितम् ।
सर्वार्थसिद्धं तन्मध्ये, सर्वोत्तममुदीरितम् ॥५०॥ [ द्वा.भा./१०८ ] १. चन्द्रैरन्तरिताः सूर्याः सूर्यैरन्तरिताश्च ते-इति प्रवचनसारोद्धारवृत्तौ ॥ २. वृद्धिमन्तश्च सङ्ख्यया-इति प्रवचनसारोद्धारवृत्तौ ॥
D:\new/d-3.pm5\3rd proof