________________
६८८]
[धर्मसंग्रह:-तृतीयोऽधिकारः योजनलक्षप्रमिताज्जम्बूद्वीपात् परो द्विगुणमानः । लवणसमुद्रः परतस्तद्विगुणद्विगुणविस्ताराः ॥२५॥ [ द्वा.भा./८३] बोद्धव्या धातकीखण्डकालोदाद्या असङ्ख्यकाः । स्वयम्भूरमणान्ताश्च, द्वीपवारिधयः क्रमात् ॥२६॥ [ द्वा.भा./८४] प्रत्येकरससंपूर्णाश्चत्वारस्तोयराशयः । त्रयो जलरसा अन्ये, सर्वेऽपीक्षुरसाः स्मृताः ॥२७॥ [ द्वा.भा./८५ ] सुजातपरमद्रव्यहृद्यमद्यसमोदकः । वारुणीवरवाद्धिः स्यात् , क्षीरोदजलधिः पुनः ॥२८॥ [ द्वा.भा./८६ ] सम्यक्क्वथितखण्डादिमुग्धदुग्धसमोदकः । घृतवरः सुतापितनव्यगव्यघृतोदकः ॥२९॥ [ द्वा.भा./८७ ] लवणाब्धिस्त लवणास्वादपानीयपरितः । कालोदः पुष्करवरः, स्वयम्भूरमणस्तथा ॥३०॥ [ द्वा.भा./८८] मेघोदकरसाः किं तु , कालोदजलधेर्जलम् । कालं गुरुपरिणामं, पुष्करोदजलं पुनः ॥३१॥ [ द्वा.भा./८९] हितं लघुपरिणाम, स्वच्छस्फटिकनिर्मलम् । स्वयम्भूरमणस्यापि, जलघर्जलमीदृशम् ॥३२॥ [ द्वा.भा./९०] त्रिभागावर्त्तसुचतुर्जातकेारसोपमम् । शेषासङ्ख्यसमुद्राणां, नीरं निगदितं जिनैः ॥३३॥ [ द्वा.भा./९१] समभूमितलादूर्ध्वं, योजने शतसप्तके । गते नवतिसंयुक्ते, ज्योतिषां स्यादधस्तलः ॥३४॥ [ द्वा.भा./९२ ] तस्योपरि च दशसु , योजनेषु दिवाकरः । तदुपर्यशीतिसङ्ख्ययोजनेषु निशाकरः ॥३५॥ [ द्वा.भा./९३] तस्योपरि च विंशत्यां, योजनेषु ग्रहादयः । स्यादेवं योजनशतं, ज्योतिर्लोको दशोत्तरम् ॥३६॥ [ द्वा.भा./९४] जम्बूद्वीपे भ्रमन्तौ च, द्वौ चन्द्रौ द्वौ च भास्करौ । चत्वारो लवणाम्भोधौ, चन्द्राः सूर्याश्च कीर्तिताः ॥३७॥ [ द्वा.भा./९५]
१. स्तलम्-मु० । स्तलः-इति P.C. प्रवचनसारोद्धारवृत्तौ ।।
D:\new/d-3.pm53rd proof