________________
करणसप्ततिस्वरूपम्, १२भावनास्वरूपम् - श्लो० ११८ ॥ ] उदीच्यानां बेलिर्नागकुमारादेर्यथाक्रमम् ।
धरणो भूतानन्दश्च, हेरिर्हरिसहस्तथा ॥११॥ [ द्वा.भा./६९ ] वेणुदेवो वेणुदाली, चाग्निशिखाग्निमाणौ । वेलम्बः प्रभञ्जनश्च, सुघोषमहाघोषकौ ॥१२॥ [ द्वा.भा./७० ]
जलकान्तो जलप्रभस्ततः पूँर्णो विशिष्टकः ।
अमितो मितवाहन इन्द्रा ज्ञेया द्वयोर्दिशोः ॥१३॥ [ द्वा.भा./७१ ]
[ ६८७
अस्या एव पृथिव्या उपरितने मुक्तयोजनसहस्त्रे ।
योजनशतमध उपरि च मुक्त्वाऽष्टसु योजनशतेषु ॥१४॥ [ द्वा.भा. / ७२ ] पिशाचाद्यष्टभेदानां, व्यन्तराणां तरस्विनाम् ।
नगराणि भवन्त्यत्र, दक्षिणोत्तरयोर्दिशोः ॥१५॥ [ द्वा.भा./७३ ] पिशाचा भूता यक्षाश्च, राक्षसाः किन्नरास्तथा ।
किम्पुरुषा महोरगा, गन्धर्वा इति तेऽष्टधा ॥१६॥ [ द्वा.भा./७४ ] दक्षिणोत्तरभागेन, तेषामपि च तस्थुषाम् ।
द्वौ द्वाविन्द्रसमाम्नात, यथासंख्यं सुबुद्धिभिः ॥१७॥ [ द्वा.भा. / ७५ ] कालस्ततो महाकालः, सुरूपप्रतिरूपकः ।
पूर्णभद्रो माणिभद्रो, भीमो भीमो महादिकः ॥१८॥ [ द्वा.भा./७६ ] किन्नरकिम्पुरुषौ सत्पुरुषमहापुरुषनामकौ तदनु । 'अतिकायमहाकाया गीतरतिश्चैव गीतयशाः ॥१९॥ [ द्वा.भा./७७]
अस्या एव पृथिव्या उपरि च योजनशतं हि यन्मुक्तम् । तन्मध्यादध उपरि च योजनदशकं परित्यज्य ॥२०॥ [ द्वा.भा. / ७८ ] मध्येऽशीताविह योजनेषु तिष्ठन्ति वनचरनिकायाः । अप्रज्ञप्तिकमुख्याः अष्टावल्पद्धिकाः किञ्चित् ॥२१॥ [ द्वा.भा./७९ ] अत्र प्रतिनिकायं च द्वौ द्वाविन्द्रौ महाद्युती । दक्षिणोत्तरभागेन, विज्ञातव्यौ मनीषिभिः ॥२२॥ [ द्वा.भा. / ८० ] योजनलक्षोन्नतिना स्थितेन मध्ये सुवर्णमयवपुषा ।
मेरुगिरिणा विशिष्टे जम्बूद्वीपे भवन्त्यत्र ॥२३॥ [ द्वा.भा./८१]
वर्षाणि भरतादीनि, सप्त वर्षधरास्तथा ।
पर्वता हिमवन्मुख्याः, षट् शाश्वतजिनालयाः ॥२४॥ [ द्वा.भा./८२]
D:\new/d-3.pm5\ 3rd proof