________________
६८६]
[धर्मसंग्रहः-तृतीयोऽधिकारः कष्टं वेदयमानानां, यः शाटः कर्मणां भवेत् । अकामनिर्जरामेनामामनन्ति मनीषिणः ॥५॥ [ द्वा.भा./५७] तपःप्रभृतिभिर्वृद्धि, व्रजन्ती निर्जरा यतः । ममत्वं कर्म संसार, हन्यात्तां भावयेत्ततः ॥६॥[ द्वा.भा./५८] सदोषमपि दीप्तेन, सुवर्णं वह्निना यथा ।
तपोऽऽग्निना तप्यमानस्तथा जीवो विशुद्धयति" ॥७॥ [ यो.शा.४/८८] अत्र द्वादशविधतपः स्वरूपचिन्तनं ज्ञेयम् । अथ लोकस्वभावभावना यथा - "वैशाखस्थानस्थितकटिस्थकरयुगनराकृतिर्लोकः ।
भवति द्रव्यैः पूर्णः स्थित्युत्पत्तिव्ययाक्रान्तैः ॥१॥ [ द्वा.भा./५९] ऊर्ध्वतिर्यगधोभेदैः, स त्रेधा जगदे जिनैः । रुचकादष्टप्रदेशान्मेरुमध्यव्यवस्थितात् ॥२॥ [ द्वा.भा./६०] नवयोजनशत्यूर्ध्वमधोभागेऽपि सा तथा । एतत्प्रमाणकस्तिर्यग्लोकश्चित्रपदार्थभृत् ॥३॥ [ द्वा.भा./६१] ऊर्ध्वलोकस्तदुपरि, सप्तरज्जुप्रमाणकः । एतत्प्रमाणसंयुक्तश्चाधोलोकोऽपि कीर्तितः ॥४॥ [ द्वा.भा./६२ ] रत्नप्रभाप्रभृतयः, पृथिव्यः सप्त वेष्टिताः । घनोदधिघनवाततनुवातैस्तमोघनाः ॥५॥ [ द्वा.भा./६३] तृष्णाक्षुधावधाघातभेदनच्छेदनादिभिः । दुःखानि नारकास्तत्र, वेदयन्ते निरन्तरम् ॥६॥ [ द्वा.भा./६४] प्रथमा पृथिवी पिण्डे, योजनानां सहस्रकाः । अशीतिर्लक्षमेकं च, तत्रोपरि सहस्रकम् ॥७॥ [ द्वा.भा./६५ ] अधश्च मुक्त्वा पिण्डस्य, शेषस्याभ्यन्तरे पुनः । भवनाधिपदेवानां, भवनानि जगुर्जिनाः ॥८॥ [ द्वा.भा./६६ ] असुरा नागास्तडितः, सुपर्णा अग्नयोऽनिलाः । स्तनिताब्धिद्वीपदिशः, कुमारान्ता दशेति ते ॥९॥ [ द्वा.भा./६७] व्यवस्थिताः पुनः सर्वे, दक्षिणोत्तरयोर्दिशोः । तत्रासुराणां चमरो, दक्षिणावासिनां विभुः ॥१०॥ [ द्वा.भा./६८ ]
१. इमाः १/५९ गाथाः प्रवचनसारोद्धारवृत्तावपि भा० १ प० ४६१ तः दृश्यन्ते ।
D:\new/d-3.pm53rd proof