SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ करणसप्ततिस्वरूपम्, १२भावनास्वरूपम् - श्लो० ११८ ॥ ] [ ६८५ अस्यार्थः –कर्मपुद्गलानामाश्रवद्वारेणादानं – प्रवेशनं तस्य यश्छिद्यतेऽनेनेति छेदः स द्रव्याणां संवरो द्रव्यसंवरः, भावसंवरस्तु संसारकारणभूतायाः क्रियाया आत्मव्यापाररूपायास्त्याग इति । [ योगशास्त्रवृत्तौ प० ८७१ ] कषाय-विषयादीनामशुभकर्महेतूनां प्रतिपक्षभूतानुपायानाह - "येन येन ह्युपायेन, रुध्यते यो य आश्रवः । तस्य तस्य निरोधाय स स योज्यो मनीषिभिः " ॥३॥ [ यो.शा. ४/८१] उपाया यथा - “क्षमया मृदुभावेन, ऋजुत्वेनाप्यनीहया । क्रोधं मानं तथा मायां, लोभं रुन्ध्याद् यथाक्रमम् " ॥४॥ [ यो.शा. ४/८२] विषयाणां प्रतिपक्षतः क्षयमाह - 'असंयमकृतोत्सेकान्, विषयान् विषसंनिभान् । निराकुर्यादखण्डेन, संयमेन महामतिः " ॥५॥ [ यो.शा. ४/८३ ] प्रमादाविरतीनां प्रतिपक्षानाह 'तिसृभिर्गुप्तिभिर्योगान्, प्रमादं चाप्रमादतः । सावद्ययोगहानेनाविरतिं चापि साधयेत्" ॥६॥ [ यो.शा. ४ / ८४ ] अथ मिथ्यात्वार्त्तरौद्राणां प्रतिपक्षानाह - - " - ‘“सद्दर्शनेन मिथ्यात्वं, शुभस्थैर्येण चेतसा । विजयेतार्त्तरौद्रे च, संवरार्थं कृतोद्यमः " ॥७॥ [ यो.शा. ४/८५ ] अथ निर्जरा भावना यथा - "संसारबीजभूतानां, कर्मणां जरणादिह । निर्जरा सा स्मृता द्वेधा, सकामा कामवर्जिता ॥१॥ [ यो.शा.४/८६ ] ज्ञेया सकामा यमिनामकामा त्वन्यदेहिनाम् । पाकः स्वत उपायाच्च, कर्मणां स्याद्यथाऽऽम्रवत् ॥२॥[ ] कर्मणां नः क्षयो भूयादित्याशयवतां सताम् । वितन्वतां तपस्यादि, सकामा शमिनां मता ॥३॥ [ द्वा.भा. / ५५ ] एकेन्द्रियादिजन्तूनां, संज्ञानरहितात्मनाम् । शीतोष्ण - वृष्टि - दहन - च्छेद-भेदादिभिः सदा ॥४॥ [ द्वा.भा./५६ ] १. °सः-इति योगशास्त्रे ॥ २. तुला - योगशास्त्रे ४ / ८७ ॥ D:\new/d-3.pm5\3rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy