________________
६८४]
[धर्मसंग्रहः-तृतीयोऽधिकारः "मनोवाक्कायकर्माणि, योगाः कर्म शुभाशुभम् । यदास्रवन्ति जन्तूनामाश्रवास्तेन कीर्तिताः ॥१॥[यो.शा.४/७४] मैत्र्यादिवासितं चेतः, कर्म सूते शुभात्मकम् । कषायविषयाक्रान्तं, वितनोत्यशुभं पुनः" ॥२॥[यो.शा.४/७५ ] यतोऽन्यत्र "मैत्र्या सर्वेषु सत्त्वेषु , प्रमोदेन गुणाधिके। माध्यस्थ्येनाविनीतेषु , कृपया दुःखितेषु वा ॥१॥ [ द्वा.भा./३६ ] सततं वासितं स्वान्तं, कस्यचित् पुण्यशालिनः ।
वितनोति शुभं कर्म, द्विचत्वारिंशदात्मकम्" ॥२॥ [ द्वा.भा./३७] इति । तथा- "शुभार्जनाय निर्मिथ्यं, श्रुतज्ञानाश्रितं वचः ।
विपरीतं पुनर्जेयमशुभार्जनहेतवे ॥३॥ [ यो.शा.४/७६ ] शरीरेण सुगुप्तेन, शरीरी चिनुते शुभम् । सततारम्भिणा जन्तुघातकेनाशुभं पुनः ॥४॥ [यो.शा.४/७७] कषाया विषया योगाः, प्रमादाविरती तथा ।
मिथ्यात्वमार्त्तरौर्दै चेत्यशुभं प्रति हेतवः" ॥५॥ [ यो.शा.४/७८ ] नन्वते बन्धं प्रति हेतुत्वेनोक्ताः, यदाह वाचकमुख्यः-"मिथ्यादर्शना-ऽविरति-प्रमादकषाय-योगा बन्धहेतवः"[तत्त्वा० अ०८-सू० १] इति तत्किमाश्रवभावनायां बन्धहेतूनामेतेषामभिधानम् ?, सत्यम् , आश्रभावनेव बन्धभावनापि न महर्षिभिर्भावनात्वेनोक्ता, आश्रवभावनयैव गतार्थत्वात् , आश्रवेण ह्युपात्ताः कर्मपुद्गला आत्मना संबध्यमाना बन्ध इत्यभिधीयते, यदाह -"सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते, स बन्धः" [ तत्त्वा०अ०९-सू० २] स्यादित्यतोऽपि कर्मपुद्गलादानहेतावाश्रवे बन्धहेतूनामभिधानमदुष्टम् , ननु तथापि बन्धहेतूनां पाठो निरर्थकः, नैवम् , बन्धाऽऽश्रवयोरेकत्वेनोक्तत्वादाश्रवहेतूनामेवायं पाठ इति, सर्वमवदातमिति । अत्र च प्रतिकर्मप्रकृति असाधारणाश्रवभावनं योगशास्त्रान्तरश्लोक-कर्मग्रन्थादिभ्यो ज्ञेयम् । संवरभावना यथा -
"सर्वेषामाश्रवाणां तु , निरोधः संवरः स्मृतः । स पुनर्भिद्यते द्वेधा, द्रव्यभावविभेदतः ॥१॥[यो.शा.४/७९] यः कर्मपुद्गलादानच्छेदः स द्रव्यसंवरः ।
भवहेतुक्रियात्यागः, स पुनर्भावसंवरः" ॥२॥ [ यो.शा.४/८०] १. P.C. । ट्रै-योगशास्त्रे ॥
D:\new/d-3.pm5\3rd proof