SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ ६८२] [धर्मसंग्रहः-तृतीयोऽधिकार: कल्लोलचपला लक्ष्मीः, सङ्गमाः स्वप्नसन्निभाः । वात्याव्यतिकरोत्क्षिप्ततूलतुल्यं च यौवनम्" ॥३॥[यो.शा.४/५९] तथा- "ध्यायन्ननित्यतां नित्यं, मृतं पुत्रं न शोचति । नित्यताग्रहमूढस्तु , कुड्यभङ्गेऽपि रोदिति ॥४॥[ ] एतच्छरीरधनयौवनबान्धवादि, तावन्न केवलमनित्यमिहासुभाजाम् । विश्वं सचेतनमचेतनमप्यशेषमुत्पत्तिधर्मकमनित्यमुशन्ति सन्तः ॥५॥[ ] इत्यनित्यं जगवृत्तं, स्थिरचित्तः प्रतिक्षणम् । तृष्णाकृष्णाहिमन्त्राय, निर्ममत्वाय चिन्तयेत्' ॥६॥ [ यो.शा.४/६०] अशरणभावना चैवम् - "इन्द्रोपेन्द्रादयोऽप्येते, यन्मृत्योर्यान्ति गोचरम् । अहो तदन्तकातङ्के, कः शरण्यं शरीरिणाम् ?" ॥ [ यो.शा.४/६१] शरणे साधुः शरण्यः । तथा- "पितुर्मातुः स्वसुर्धातुस्तनयानां च पश्यताम् । अत्राणो नीयते जन्तुः, कर्मभिर्यमसद्मनि ॥२॥ [ यो.शा.४/६२] शोचन्ति स्वजनानन्तं, नीयमानान् स्वकर्मभिः । नेष्यमाणं न (तु) शोचन्ति, नात्मानं मूढबुद्धयः ॥३॥ [ यो.शा.४/६३] संसारे द:खदावाग्निज्वलज्ज्वालाकरालिते । वने मृगार्भकस्येव, शरणं नास्ति देहिनः" ॥४॥ [ यो.शा.४/६४] अथ संसारो-नानायोनिसंचरणम् । तद्भावना त्वेवम् – "श्रोत्रियः श्वपचः स्वामी, पत्तिर्ब्रह्मा कृमिश्च सः । संसारनाट्ये नटवत् , संसारी हन्त चेष्टते ॥१॥[यो.शा.४/६५ ] न याति कतमां योनि ?, कतमां च न मुञ्चति ? । संसारी कर्मसम्बन्धादवक्रयकुटीमिव" ॥२॥ [ यो.शा.४/६६] अवक्रयकुटीमिति भाटककुटीम् । तथा – "समस्तलोकाकाशेऽपि, नानारूपैः स्वकर्मतः । वालाग्रमपि तन्नास्ति, यन्न स्पृष्टं शरीरिभिः" ॥३॥ [ यो.शा.४/६७] १. न शोचन्ति ना(स्वा-मु-)त्मानं-L.P.C. I त शोचन्ति-योगशास्त्रे ।। २. वा-योगशास्त्रे ।। D:\new/d-3.pm53rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy