SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ करणसप्ततिस्वरूपम् -अष्टप्रवचनमातृस्वरूपम् -श्लो० ११८॥] [६८१ चौरचार्वाकादिभाषितां निर्दम्भतया वर्जयत: सर्वजनीनं स्वल्पमप्यतिप्रयोजनसाधकमसंदिग्धं च यद्भाषणं सा भाषासमितिः । यदाह - "महुरं निउणं थोवं, कज्जावडिअं अगव्विअमतुच्छं। पुट्वि मइसंकलिअं, भणंति जं धम्मसंजुत्तं" ॥१॥ [उ.मा./८० ] इति । भाषायां सम्यगितिर्वा भाषासमितिः । तथा गवेषण-ग्रहण-ग्रासैषणादोषैरदूषितस्यान्नपानादे रजोहरण-मुखवस्त्रिकाद्यौघिकोपधेः शय्या-पीठ-फलक-चर्म-दण्डाद्यौपग्रहिकोपधेश्च विशुद्धस्य यद् ग्रहणं सा एषणासमितिः । यदाह - "उत्पादनोद्गमैषणधूमाङ्गारप्रमाणकारणतः । संयोजनाच्च पिण्डं शोधयतामेषणासमितिः" ॥१॥[ ] इति । तथा आसन-संस्तारक-पीठ-फलक-वस्त्र-पात्र-दण्डादिकं चक्षुषा निरीक्ष्य प्रतिलिख्य च सम्यगुपयोगपूर्वं रजोहरणादिना यत् गृह्णीयाद् यच्च निरीक्षितप्रतिलेखितभूमौ निक्षिपेत् सा आदाननिक्षेपसमितिः । अनुपयुक्तस्य प्रतिलेखनापूर्वमप्यादाने निक्षेपे च न शुद्धा समितिः, यदवाचि–“पडिलेहणं कुणंतो" [गा.स./३७२ ] इत्यादिगाथाद्वयम् । __ तथा पुरीष-प्रश्रवणऽनिष्ठीवन-श्लेष्म-शरीरमला-नुपकारिवसनान्नपानादीनां यज्जन्तुरहितस्थण्डिले उपयोगपूर्वकं परित्यजनं सा परिष्ठापनासमितिः । एताश्च पञ्च समितयः गुप्तयश्च तिस्रो वक्ष्यमाणा आगमप्रसिद्धाः साधूनां मातरो ज्ञेयाः । यतो योगशास्त्रे "एताश्चारित्रगात्रस्य, जननात् परिपालनात् । संशोधनाच्च साधूनां, मातरोऽष्टौ प्रकीर्तिताः" ॥१॥[यो.शा.१/४५ ] इति । तथा भाव्यन्त इति भावनाः-अनुप्रेक्षाः, अनित्यत्वा-ऽशरणत्व-संसारैकत्वाऽन्यत्वा-शुचित्वा-ऽऽश्रव-संवरनिर्जरा-लोकस्वभाव-बोधिसुदुर्लभत्व-धर्मस्वाख्याततारूपा द्वादश । तत्रानित्यभावनैवं - "यत्प्रातस्तन्न मध्याह्ने, यन्मध्याह्ने न तन्निशि । निरीक्ष्यते भवेऽस्मिन् ही ! पदार्थानामनित्यता ॥१॥ [यो.शा.४/५७] शरीरं देहिनां सर्वपुरुषार्थनिबन्धनम् । प्रचण्डपवनोद्भूतघनाघनविनश्वरम् ॥२॥ [ यो.शा.४/५८] D:\new/d-3.pm5\3rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy