________________
६८० ]
[ धर्मसंग्रहः - तृतीयोऽधिकारः पिण्डविशुद्धिः –आहारादिनिर्दोषता सा आदौ येषां भेदानां ते पिण्डविशुद्ध्याद्याः सप्ततिभेदा इत्यर्थः, उत्तरगुणा - उत्तरगुणसंज्ञकाः 'स्फुटं' प्रकटं ' स्युः ' भवेयुरिति सम्बन्धः, तत्रादिशब्दगृहीताः सप्ततिभेदास्त्विमे -
" पिंडविसोही ४ समिई ५, भावण १२ पडिमा १२ य इंदिअनिरोहो ५ ।
पडिलेहण २५ गुत्तीओ ३, अभिग्गहा ४ चेव करणं तु" ॥१॥ [ ओघ.नि.भा.गा./२]
व्याख्या –पिण्डस्य –आहारादेर्विविधमनेकैराधाकर्मादिपरिहारैः शुद्धिर्निर्दोषता पिण्डविशुद्धिः, सा च पिण्डशब्देन पिण्ड - शय्या - वस्त्र - पात्रलक्षणवस्तुचतुष्टयग्रहणाच्चतुर्विधा पूर्वं दिनचर्यायां व्यावर्णितैव, समितिरिति पञ्चानां चेष्टानां तान्त्रिकी संज्ञा, अथवा सम्यक् – प्रशस्तार्हत्प्रवचनानुसारेण इति : - चेष्टा समिति:, सा च ईर्याभाषैषणा - ऽऽदान - निक्षेप - पारिष्ठापनिकाभेदात् पञ्चधा । यतः –
"इरिआ भासा एसण, आयाणाईसु तहय परिठवणा ।
"
सम्मं जा उ पवित्ती, सा समिई पंचहा एवं ' ॥१॥ [ प्रव./५७१ ]
तत्र त्रस-स्थावरजन्तुजाता भयदानदीक्षितस्य मुनेरावश्यके प्रयोजने गच्छतो जन्तुरक्षानिमित्तं स्वशरीररक्षानिमित्तं च पादाग्रादारभ्य युगमात्रक्षेत्रं यावन्निरीक्ष्य ईरणम् ईर्या – गतिस्तस्यां समितिरीर्यासमितिः । यदाहु: -
1
"पुरओ जुगमायाए, पेहमाणो महिं चरे ।
वज्जंतो बीअहरिआई, पाणे अ दगमट्टिअं" ॥१॥ [ द.वै.अ. ५, उ.१, ३]
'ओवायं विसमं खाणुं, विज्जलं परिवज्जए ।
संकमेण न गच्छेज्जा, विज्जमाणे परक्कमे" ॥२॥ [ द.वै.अ. ५, उ.१, ४]
एवंविधोपयोगेन गच्छतो यतेः कथञ्चित्प्राणिवधेऽपि प्राणवधपापं न भवति । यदाह
44
"उच्चालिअंमि पाए, इरिआसमिअस्स संकमट्ठाए ।
वावज्जिज्ज कुलिंगी, मरिज्ज तज्जोगमासज्ज ॥१॥ [ ओघ.नि./७४९ ]
न य तस्स तन्निमित्तो, बंधो सुहुमो वि देसिओ समए । अणवज्जो उवओगेण, सव्वभावेण सो जम्हा" ॥२॥ [ ओघ.नि./ ७५० ] तथा - "जिअदु व मरदु व जीवो, अजदाचारस्स निच्छओ हिंसा ।
पयदस्स णत्थि बंधो, हिंसामित्तेण समिदस्स" ॥१॥ [प्र.सा./३१७] तथा भाषाजातवाक्यशुद्ध्यध्ययनप्रतिपादितां सावद्यां भाषां धूर्त्तकामुकक्रव्याद१. "स्तस्याः- मु० ॥ २. तुला - योगशास्त्रटीका १३६, प्रवचनसारोद्धारटीका भा० १ ० ४५४ ॥
D:\new/d-3.pm5\3rd proof