________________
चरणिसप्ततिस्वरूपम् , करणसप्ततिस्वरूपम् -श्लो० ११७/११८॥] [६७९
तथा ज्ञायतेऽनेनेति ज्ञानमाभिनिबोधिकादि तदादि यस्य तत् ज्ञानादि तच्च तत् त्रिकं चेति समासः, आदिशब्दात् सम्यग्दर्शनचारित्रयोर्ग्रहणम् । यतः -
"बारस अंगाइ सुअं, नाणं तत्तत्थसदहाणं तु ।
दंसणमेअं चरणं, विरई देसे अ सव्वे अ" ॥१॥[प्र.सा./५५९] त्ति । तपः -पूर्वोक्तलक्षणं बाह्याभ्यन्तरभेदाद् द्वादशविधं तपोऽधिकारे व्याख्यास्यमानम् , क्रोधस्य निग्रहः क्रोधनिग्रहः, आदिशब्दान्माननिग्रहादिपरिग्रहः, एतद्भेदकदम्बकं चरणमिति - चरणसंज्ञम् , एते भेदाः सप्ततिसंख्याश्चरणस्य -चारित्रस्य भवन्तीति चरणसप्ततिसंज्ञा इत्यर्थः । अत्रायं विवेकः-चतुर्थव्रतान्तर्गतत्वेऽपि नवब्रह्मगुप्तीनां पृथगुपादानं तुर्यव्रतस्य निरपवादत्वसूचनार्थं । य
"ने य किंचि अणुण्णायं, पडिसिद्धं वा वि जिणवरिंदेहिं।
मुत्तुं मेहुणभावं, न विणा तं रागदोसेहिं" ॥१॥ [गा.स./१३२ ] इति । तथा व्रतग्रहणेन चारित्रस्य गतार्थत्वेऽपि ज्ञानादित्रिके चारित्रग्रहणं शेषचतुर्विधचारित्रसङ्ग्रहार्थम् , व्रतशब्देन सामायिकादिपञ्चविधचारित्रस्यैकांशरूपसामायिकाभिधेयत्वेन शेषचतुर्विधचारित्रग्रहणात् , तथा श्रमणधर्मान्तर्भूतत्वेऽपि संयमतपसोः पृथगुपन्यासस्तयोर्मोक्षाङ्गं प्रति प्राधान्यख्यापनार्थम् , दृष्टश्चायं न्यायः यथा ब्राह्मणा आयाता वशिष्टोऽप्यायात इत्यादि, प्राधान्यं च तयोः क्रमेणपूर्वकर्माश्रवरोधहेतुत्वेन पूर्वकर्मक्षयहेतुत्वेन च स्पष्टमेव, तथा तपोऽन्तर्भावेऽपि वैयावृत्यस्य भेदेनोपादानं तस्य स्वपरोपकारित्वेनानशनादिभ्योऽतिशायित्वोपदर्शनार्थम् , तथा श्रमणधर्मग्रहणेन गृहीतानामपि क्रोधनिग्रहादीनां पृथगुपादानम् उदयप्राप्तक्रोधादीनां निष्फलकरणं क्रोधादिनिग्रह इति व्याख्यानात् , क्षान्त्यादीनां, तु उदीर्णक्रोधाद्यनुदयरूपत्वात् , अथवा क्षान्त्यादयो ग्राह्याः, क्रोधादयो हेया इति भेदात् ॥११७॥
इत्युक्ता मूलगुणाः । अथैतेभ्योऽतिरिक्तान् गुणान् संज्ञान्तरेण दर्शयन् सर्वेषां चाचरणाप्राधान्यमुपवर्णयन्नाह -
शेषाः पिण्डविशुद्ध्याद्याः, स्युरुत्तरगुणाः स्फुटम् । ___ एषां चानतिचाराणां, पालनं ते त्वमी मताः ॥११८॥ ___ 'शेषा' उक्तमूलगुणेभ्योऽवशिष्टाः, ते के ? इत्याह –'पिण्डविशुद्ध्याद्याः' इति
१. तुला-प्रवचनसारोद्धारटीका गा० ५५२ ।।
D:\new/d-3.pm53rd proof