________________
चरणसप्ततिस्वरूपम् - श्लो० ११७ ॥]
[ ६७७
"संकप्पो संरंभो, परितावकरो भवे समारंभो ।
आरंभ उद्दवओ, सुद्धनयाणं तु सव्वेसिं" ॥१॥ [प्रव./१०६०] तथा अजीवरूपाण्यपि पुस्तकादीनि दुःषमादिदोषात्तथाविधप्रज्ञायुष्कश्रद्धासंवेगोद्यमबलादिहीनाद्यकालीनविनेयजनानुग्रहाय प्रतिलेखनाप्रमार्जनापूर्वं यतनया धारयतोऽजीवसंयमः । तथा प्रेक्ष्य - चक्षुषा निरीक्ष्य बीजहरितजन्तुसंसक्त्यादिरहिते स्थाने शयनाऽऽसन-चङ्क्रमणादीनि कुर्वतः प्रेक्षासंयमः । तथोपेक्षासंयमो गृहस्थस्य पापव्यापारं कुर्वत उपेक्षणम्, न पुनरिदं ग्रामचिन्तनादि सोपयोगं कुरु इत्याद्युपदेशनम्, अथवा साधूनां संयमं प्रति सीदतां व्यापारणं प्रेक्षासंयमः, पार्श्वस्थादीनां च निद्धन्धसानां व्यापारं प्रत्युपेक्षणम् उपेक्षासंयम इति । तथा प्रेक्षितेऽपि स्थण्डिलवस्त्रपात्रादौ रजोहरणादिना प्रमृज्य शयनाऽऽसन-निक्षेपा-ऽऽदानादि कुर्वतः कृष्णभूप्रदेशाद्वा पाण्डुभूमादौ प्रवेशे सागारिकाद्यनिरीक्षणे च सचित्ताचित्तमिश्ररजोऽवगुण्ठितपादादीनां रजोहरणेन प्रमार्जनं सागारिकादिनिरीक्षणे त्वप्रमार्जनं कुर्वतः प्रमार्जनासंयमः । यदुक्तम् –
"पायाई सागरिए, अपमजित्ता वि संजमो होइ ।
पायाइ पमज्जंते, सागरिए संजमो होइ ॥ १ ॥ [ प्र.सा./५५६वृ. ] तथोच्चारादिकं भक्तपानादिकं वा प्राणिसंसक्तशुद्धमनुपकारकं च जन्तुरहिते स्थाने विधिना परिष्ठापयतः परिष्ठापनासंयमः । तथा मनसो द्रोहेर्ष्याभिमानादिभ्यो निवृत्तिर्द्धर्मध्यानादिषु च प्रवृत्तिर्मन:संयमः । तथा वाचो हिंस्रपरुषादिभ्यो निवृत्तिः शुभभाषायां च प्रवृत्तिर्वाक्संयमः । तथा गमनागमनादिष्ववश्यकरणीयेषु सोपयोगं कायं व्यापारयतः कायसंयमः । इत्येवं सप्तदशप्रकारः प्राणातिपातनिवृत्तिरूपः संयमो भवति ।
तथा व्यापिपर्त्ति स्म व्यापृतस्तस्य भावो वैयावृत्त्यम्, आचार्योपाध्याय - तपस्विशैक्षक-ग्लान-साधु-समनोज्ञ-सङ्घ-कुल- गणरूपविषयभेदाद् दशविधम् । यतः -
'आयरिअउवज्झाए, तवस्सिसेहे गिलाणसाहूसु ।
समणुन्नसंघकुलगण वेआवच्चं हवइ दसहा" ॥१॥[प्र.सा./५५७]
पञ्चविधे आचारे साधुः आचर्यते सेव्यते वा आचार्य:, स च पञ्चधा – *प्रव्राजकाचार्य:, दिगाचार्यः उद्देशाचार्यः समुद्देशानुज्ञाचार्यः आम्नायार्थवाचकाचार्य: । तत्र सामायिकव्रतादेशरोपयिता* प्रव्राजकाचार्य: १, सचित्ताचित्तमिश्रानुज्ञायी दिगाचार्य: २, प्रथमत एव श्रुतमुद्दिशति यः स उद्देशाचार्य: ३, उद्देष्टृगुर्वभावे तदेव श्रुतं समुद्दिशत्यनुजानीते वा यः स १. * * चिह्नद्वयमध्पवर्तीपाठः मु० नास्ति ॥
D:\new/d-3.pm5\3rd proof