________________
६७६]
[धर्मसंग्रहः-तृतीयोऽधिकारः नोवाक्कायकर्मा तस्य भावः कर्म वा आर्जवम् , मनोवाक्कायविक्रियाविरहो, मायाराहित्यमितियावत् ३। मोचनं मुक्तिर्बाह्याभ्यन्तरवस्तुषु तृष्णाविच्छेदो, लोभपरित्याग इत्यर्थः ४। तप्यन्ते रसादिधातवः कर्माणि वाऽनेनेति तपः, तच्च द्वादशविधमनशनादि ५। संयम आश्रवविरतिलक्षणः ६। सत्यं मृषावादविरतिः ७। शौचं संयम प्रति निरुपलेपता निरतिचारतेत्यर्थः ८। नास्ति किञ्चन -द्रव्यमस्येत्यकिञ्चनस्तस्य भाव आकिञ्चन्यम् , उपलक्षणत्वादस्य शरीरधर्मोपकरणादिष्वपि निर्ममत्वमित्यर्थः ९। नवब्रह्मचर्यगुप्तिसनाथ उपस्थासंयमो ब्रह्म १०। एष दशभेदो यतिधर्मः । अन्ये त्वेवं पठन्ति -
त्ती अज्जव, मद्दव तह लाघवे तवे चेव । संजम चाओऽकिंचण, बोद्धव्वो बंभचेरे य" ॥१॥[प्र.सा./५५४३.] तत्र 'लाघवं' द्रव्यतोऽल्पोपधित्वं भावतो गौरववर्जनम् , 'त्यागः' सर्वसङ्गमोचनं यतिभ्यो वस्त्रादिदानं वा, शेषं प्राग्वत् । तथा सम् -एकीभावेन यमः संयमः -उपरमः, स च पञ्चाश्रवविरमण-पञ्चेन्द्रियनिग्रह-चतुष्कषायजय-दण्डत्रयविरतिलक्षणः सप्तदशभेदः । यतः -
“पचासवा विरमणं, पंचिदियनिग्गहो कसायजओ ।
दंडत्तयस्स विरई, सतरसहा संजमो होइ" ॥१॥[प्र.सा./५५५] त्ति । तत्र पञ्चाश्रवाः प्राणातिपात-मृषावादा-ऽदत्तादान-मैथुन-परिग्रहलक्षणाः अभिनवकर्मबन्धहेतवस्तेभ्यो विरमणं निवर्त्तनम् , इन्द्रियाणि स्पर्शन-रसन-घ्राण चक्षुः-श्रोत्रलक्षणानि पञ्च तेषां निग्रहो -नियन्त्रणं स्पर्शादिविषयेषु लाम्पट्यपरिहारेण वर्त्तनम् । कषायाः - क्रोध-मान-माया-लोभलक्षणाश्चत्वारस्तेषां जयः -अभिभव उदितानां विफलीकरणेन अनुदितानां चानुत्पादनेन, दण्ड्यते -चारित्रैश्वर्यापहारतोऽसारीक्रियते एभिरात्मेति दण्डा - दुर्युक्तमनोवाक्कायास्तेषां त्रयम् , तस्य विरतिरशुभप्रवृत्तिनिरोधः । एष सप्तदशविधः संयमः, अन्ये त्वन्यथापि पठन्ति । यतः -
"पुढविदगअगणिमारुअवणस्सइबितिचउपणिंदिअज्जीवे ।
पेहुप्पेह पमज्जण परिठवण मणोवईकाए" ॥१॥ [प्र.सा./५५६ ] पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुष्पञ्चेन्द्रियाणां मनोवाक्कायकर्मभिः करणकारणा-ऽनुमतिभिश्च संरम्भ-समारम्भा-ऽऽरम्भवर्जनमिति नवधा जीवसंयमः । तत्र -
१. मुक्तिर्मोचनं-P || २. तुला-प्रवचनसारोद्धारटीका गा० ५५४ ॥ ३. तुला-प्रवचनसारोद्धारटीका गा० ५५५ ॥ ४. तुला-प्रवचनसारोद्धारटीका गाथा ५५६ ॥
D:\new/d-3.pm53rd proof