________________
[६७५
षष्ठव्रतस्वरूपम् -श्लो० ११७॥]
अथ पञ्चमव्रतस्य भावना यथा - "स्पर्शे रसे च गन्धे च, रूपे शब्दे च हारिणि । पञ्चस्वपीन्द्रियार्थेषु , गाढं गाद्धय॑स्य वर्जनम् ॥१॥[यो.शा.१/३२] एतेष्वेवामनोज्ञेषु , सर्वथा द्वेषवर्जनम् । आकिञ्चन्यव्रतस्यैवं, भावनाः पञ्चकीर्तिताः" ॥२॥ [यो.शा.१/३३]
स्पर्शादिषु मनोहारिषु विषयेषु यद् गाढं गाय॑स्य-अभिष्वङ्गस्य वर्जनं स्पर्शादिष्वेवामनोज्ञेषु -इन्द्रियप्रतिकूलेषु यो द्वेषः-अप्रीतिलक्षणस्तस्य वर्जनम् , गायवान् हि मनोज्ञेषु विषयेष्वभिष्वङ्गवानमनोज्ञान् विषयान् विद्वेष्टि, मध्यस्थस्य तु मूर्छारहितस्य न क्वचित् प्रीतिरप्रीतिर्वा, रागान्तरीयकतया च द्वेषस्योपादानम् , आकिञ्चन्यव्रतस्यैताः पञ्च भावनाः ५ ॥११६।। इत्युक्तानि सप्रपञ्चानि महाव्रतानि । अथ षष्ठव्रतमाह -
चतुर्विधस्याहारस्य, सर्वथा परिवर्जनम् ।
षष्ठं व्रतमिहैतानि, जिनैर्मूलगुणाः स्मृताः ॥११७॥ 'चतुर्विधस्य' अशन-पान-खादिम-स्वादिमभेदभिन्नस्य आहारस्य' अभ्यवहारस्य 'सर्वथा' त्रिविधत्रिविधेन 'परिवर्जनं' विरमणम् , तत् षष्ठं व्रतं भवतीति क्रियान्वयः । अथैतेषां संज्ञाविशेषमाह -'एतानि' साक्षात् प्रतिपादितानि षव्रतानि 'इह' साधुधर्माधिकारे 'जिनैः' अर्हद्भिर्मूलभूता गुणाः मूलगुणाः शेषव्रताधारा इत्यर्थः ‘स्मृताः' उक्ताः, उपलक्षणत्वाच्चैषां चरणसप्ततेरपि मूलगुणत्वम् । सा चेयम् - "वय ५ समणधम्म १० संजम १७, वेआवच्चं १० च बंभगुत्तीओ ९।। नाणाइतिअ ३ तव १२ कोह ४ निग्गहाई चरणमेअं" ॥१॥[ओघ.नि.भा./२] इति ।
अस्या व्याख्या -व्रतानि प्राणातिपातविरमणादीनि पञ्च, तानि तथा श्रमणानां -साधूनां धर्मः -क्षान्ति-मार्दवा-ऽऽर्जव-मुक्ति-तपः-संयम-सत्यशौचा-ऽऽकिञ्चन्य-ब्रह्मस्वरूपो दशविधः । यतः - "खंती मद्दव अज्जव, मुत्ती तव संजमे अ बोद्धव्वे । सच्चं सोयं आकिंचणं च बंभं च जइधम्मो" ॥१॥[प्र.सा./५५४ ] त्ति ।
तत्र क्षान्तिः -क्षमा शक्तस्याशक्तस्य वा सहनपरिणामः, सर्वथा क्रोधविवेक इत्यर्थः १। मृदुः -अस्तब्धस्तस्य भावः कर्म वा मार्दवम् , नीचैर्वृत्तिरनुत्सेकश्च २। ऋजुरवक्रम
D:\new/d-3.pm53rd proof