________________
पञ्चमहाव्रतस्य २५भावनाः -श्लो० ११६॥]
[६७३ भरतादिवर्षम् , गृहपतिर्मण्डलाधिपतिस्तस्यावग्रहस्तन्मण्डलादि, शय्यातरोवसतिस्वामी तदवग्रहो वसतिरेव, साधर्मिकाः –साधवस्तेषामवग्रहः शय्यातरप्रदत्तं गृहादि ।
प्रवचनसारोद्धारवृत्तौ त्वित्थं - "सार्मिक: सूरिः उपलक्षणत्वादुपाध्यायादिश्च । ततः स आचार्यादिर्यस्मिन् पुरे विहितवर्षाकालस्तन्नगरं गव्यूतपञ्चकादर्वाक् तस्याचार्यादेः प्रतिबद्धं तदवग्रह इत्यर्थः, अयं च क्षेत्रतः, कालतस्तु वर्षाकालानन्तरमपि द्वौ मासौ" । [भा० १ प० ५६१] तथा च तद्ग्रन्थगाथोत्तरार्द्ध -
"साहम्मिओ उ सूरि, जम्मि पुरे विहिअवरसालो ॥१॥[प्रव./६८३उ.]
तप्पडिबद्धं तं जाव, दोन्निमासेहिं अओ जईण सया' ।[प्रव./६८४पू.] इति । एतानवग्रहान ज्ञात्वा यथायथमवग्रहं याचेत, अस्वामियाचने हि परस्परविरोधेन अकाण्डधाटनादय ऐहिका दोषाः, परलोकेऽपि अदत्तपरिभोगजनितं पापकर्म इति प्रथमभावना, सकृद् दत्तेऽप्यवग्रहे स्वामिनाऽभीक्ष्णं भूयोऽवग्रहयाचनं कार्यम् , पूर्वलब्धेऽवग्रहे ग्लानाद्यवस्थासु मूत्रपूरीषोत्सर्गपात्रकरणचरणप्रक्षालनस्थानानि दातृचित्तपीडापरिहारार्थं याचनीयानि इति द्वितीया भावना। एतावन्मात्रमेव' एतावत्परिमाणमेव एतत् – क्षेत्रादि ममोपयोगि नाधिकमिति अवग्रहस्य धारणं -व्यवस्थापनम् , एवमवग्रहधारणे हि तदभ्यन्तरवर्तिनीमूर्ध्वस्थानादिक्रियामासेवमानो न दातुरुपरोधकारी भवति, याञ्चाकाल एवावग्रहानवधारणे विपरिणतिरपि दातुश्चेतसि स्याद् , आत्मनोऽपि चादत्तपरिभोगजनित: कर्मबन्धः स्यादिति तृतीया भावना। धर्मं चरन्तीति धार्मिकाः समानाः -तुल्याः प्रतिपन्नैकशासना: साधवस्तेभ्यः पूर्वगृहीतक्षेत्रेभ्योऽवग्रहो मासादिकालमानेन पञ्चक्रोशादिक्षेत्ररूपो याच्यस्तदनुज्ञानाद्धि तत्रासितव्यम् , तदनुज्ञातं हि तत्रोपाश्रयादि समस्तं गृह्णीयाद् , अन्यथा चौर्यं स्यादिति चतुर्थी भावना । अनुज्ञापिते -अनुज्ञया स्वीकृते ये अन्नपाने तयोरशनम् , सूत्रोक्तेन विधिना प्रासुकमेषणीयं कल्पनीयं च पानान्नमानीयालोचनापूर्वं गुरवे निवेद्यानुज्ञातो गुरुणा मण्डल्यामेकको वाऽश्नीयात् , उपलक्षणमेतत् यत्किञ्चिदौघिकौपग्रहिकभेदभिन्नमुपकरणं धर्मसाधनं तत्सर्वं गुरुणाऽनुज्ञातं परिभोक्तव्यम् , एवं विदधानो नातिक्रामत्यस्तेयव्रतमिति पञ्चमी भावना ३। अथ चतुर्थव्रतभावना । यथा -
"स्त्रीषण्ढपशुमद्वेश्मासनकुड्यान्तरोज्झनात् । सरागस्त्रीकथात्यागात् , प्राग्रतस्मृतिवर्जनात् ॥१॥ [यो.शा.१/३०]
१. L.P.C. I 'गाट(निष्काश)नादय-मु० ॥
D:\new/d-3.pm53rd proof