________________
६७२]
[धर्मसंग्रह:-तृतीयोऽधिकारः भजन्तीत्येवंशीलानि यथोक्तस्वरूपाणीत्यर्थः तुशब्दः पूर्वस्माद् विशेषणार्थः, भाव्यन्ते वास्यन्ते -गुणविशेषमारोप्यन्ते महाव्रतानि याभिस्ता भावनास्ताभिः, कियतीभिः ? इत्याह –'प्रत्येकम्' एकं २ व्रतं प्रति 'स्फुटं' प्रगटं 'पञ्चभिः' पञ्चसङ्ख्याभिः 'भावितान्येव' वासितान्येव भवन्ति न त्वभावितानि । ताश्चेत्थम् योगशास्त्रे -
"मनोगुप्त्यैषणादानेर्याभिः समितिभिस्सदा ।
दृष्टान्नपानग्रहणेनाहिंसां भावयेत्सुधीः" ॥१॥ [ यो.शा.१/२६ ] वृत्तिर्यथा -मनोगुप्तिर्वक्ष्यमाणलक्षणा तयेत्येका भावना, एषणा विशुद्धपिण्डग्रहणलक्षणा, तस्यां या समितिः, आदानग्रहणेन निक्षेप उपलक्ष्यते, तेन पीठादेर्ग्रहणे स्थापने च या समितिः, ईरणमीर्या -गमनं तत्र या समितिः, आभिरेषणादानेर्यासमितिभिः, दृष्टयोरन्नपानयोर्ग्रहणेनोपलक्षणत्वात् तद्ग्रासेनाहिंसां भावयेदिति सम्बन्धः । इह च मनोगुप्तेर्भावनात्वं हिंसायां मनोव्यापरस्य प्राधान्यात् , श्रूयते हि -प्रसन्नचन्द्रराजर्षिमनोगुप्त्याऽभावितोऽहिंसाव्रतो हिंसामकुर्वन्नपि सप्तमपृथ्वीयोग्यं कर्म निर्ममे, एषणादानेर्यासमितयस्तु अहिंसायां नितरामुपकारिण्य इति युक्तं भावनात्वम् , दृष्टान्नपानग्रहणं च संसक्तान्नपानपरिहारेणाहिंसाव्रतोपकारायेति पञ्चमी भावना । द्वितीयव्रतभावना यथा -
"हास्यलोभभयक्रोधप्रत्याख्यानैर्निरन्तरम् ।
आलोच्यभाषणेनापि, भावयेत् सूनृतव्रतम्" ॥२॥[यो.शा.१/२७] हसन् हि मिथ्या ब्रूयात् , लोभपरवशश्चार्थाकाङ्क्षया, भयार्त्तः प्राणादिरक्षणेच्छया, क्रुद्धः क्रोधतरलितमनस्कतया मिथ्या ब्रूयादिति हास्यादिप्रत्याख्यानानि चतस्रो भावनाः, आलोच्यभाषणं -सम्यग्ज्ञानपूर्वकं पर्यालोच्य मृषा मा भूदिति मोहतिरस्कारद्वारेण भाषणं पञ्चमी भावना, मोहस्य मृषावादहेतुत्वं प्रतीतमेव, यदाह -"रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृतम्'[ ] इति । अथ तृतीयव्रतभावना । यथा -
"आलोच्यावग्रहयाञ्चाऽभीक्ष्णावग्रहयाचनम् । एतावन्मात्रमेवैतदित्यवग्रहधारणम् ॥१॥[यो.शा.१/२८] समानधार्मिकेभ्यश्च, तथाऽवग्रहयाचनम् ।।
अनुज्ञापितपानान्नाशनमस्तेयभावनाः" ॥२॥ [यो.शा.१/२९] आलोच्य -मनसा विचिन्त्यावग्रहं याचेत, देवेन्द्रराजगृहपतिशय्यातरसार्मिकभेदाद्धि पञ्चावग्रहाः, अत्र च पूर्वः पूर्वो बाध्य उत्तर उत्तरो बाधकः, तत्रदेवेन्द्रावग्रहो यथा - सौधर्माधिपतेर्दक्षिणलोकार्द्धम् ईशानाधिपतेरुत्तरलोकार्द्धम् , राजा चक्रवर्ती तस्यावग्रहो
D:\new/d-3.pm53rd proof