________________
चतुर्थ-पञ्चममहाव्रतस्वरूपम् - श्लो० ११४/११५॥]
[ ६७१
स्यादित्यत आह –‘त्रिविधंत्रिविधेनेति' मनोवाक्कायैरकरणाकारणाननुमतिरूपभङ्गेन तद् ब्रह्मव्रतम् ईरितम्, धातूनामनेकार्थत्वात् प्रतिपादितं जिनैरितिशेषः । एतेन “दिव्यौदारिककामानां कृतानुमतिकारितैः ।
मनोवाक्कायतस्त्यागो, ब्रह्माष्टादशधा मतम् ॥१॥ [ यो. शा. / १।२३ ]
इत्यष्टादशविधब्रह्म सूचितमिति ॥११४॥ दर्शितं तुर्यव्रतम् । अथपञ्चमं तदाह -
परिग्रहस्य सर्वस्य, सर्वथा परिवर्जनम् ।
आकिञ्चन्यव्रतं प्रोक्तमर्हद्भिर्हितकाङ्क्षिभिः ॥ ११५ ॥
'सर्वस्य' सचित्ताचित्तादिविषयस्य द्रव्यक्षेत्रकालभावविषयस्य वा 'परिग्रहस्य' मूर्च्छाभावस्य 'सर्वथा' त्रिविधत्रिविधेन परिवर्जनं - त्यागः, तत् 'आकिञ्चन्यव्रतं' न विद्यते किञ्चन-द्रव्यं यस्यासावकिञ्चनस्तस्य भाव आकिञ्चन्यं तच्च तद् व्रतं चेति समासः, अपरिग्रहव्रतमित्यर्थः ‘प्रोक्तं' प्रज्ञप्तं, कै: ? –' अर्हद्भिः ' जिनैः, किंविशिष्टैस्तैः ? - ‘हितकाङ्क्षिभिः' हितेच्छुभिरितिशब्दार्थः । भावार्थस्त्वयम् - मूच्छैव परिग्रहो युक्तियुक्तः, यतः असत्यपि धने धनगृद्धिवतो द्रमकस्येव चित्तसंक्लेशो दुर्गतिपातनिबन्धनं भवति, सत्यपि वा द्रव्यक्षेत्रकालभावलक्षणे सामग्रीविशेषे तृष्णाकृष्णाहिनिरुपद्रवमनसां प्रशमसुखप्रीत्या चित्तविप्लवाभाव:, अत एव धर्मोपकरणधारिणां यतीनां शरीरे उपकरणे च निर्ममत्वानामपरिग्रहत्वं । यदाह -
“यद्वत्तुरगः सत्स्वप्याभरणविभूषणेष्वनभिषक्तः ।
तद्वदुपग्रहवानपि न सङ्गमुपयाति निर्ग्रन्थः " ॥१॥ [ प्र.र./११४]
यथा च धर्मोपकरणवतामपि मूर्च्छारहितानां मुनीनां न परिग्रहत्वदोषस्तथा व्रतिनीनामपि गुरूपदिष्टधर्मोपकरणधारिणीनां रत्नत्रयवतीनाम् तेन तासां धर्मोपकरणपरिग्रहमात्रेण मोक्षापवादः प्रलापमात्रम् ॥११५॥
"
इति प्रतिपादितं पञ्चमं व्रतम्, तथा चोक्तानि पञ्चापि महाव्रतानि, अथापि तद्विषयमेव विशेषमाह -
एतानि भावनाभिश्च प्रत्येकं पञ्चभिः स्फुटम् ।
भवन्ति भावितान्येव, यथोक्तगुणभाञ्जि तु ॥ ११६॥
‘चः' पुन: ‘एतानि' पञ्च महाव्रतानि, यथोक्तगुणान् -सर्वथा हिंसात्यागादिलक्षणान्
D:\new/d-3.pm5\ 3rd proof