________________
६७० ]
[ धर्मसंग्रहः - तृतीयोऽधिकारः प्रकटार्था ११। अव्याकृताऽतिगम्भीरशब्दार्था अव्यक्ताक्षरयुक्ता वा अविभावितार्थत्वादिति १२। एते संमीलिता द्विचत्वारिंशद्भेदा भाषाया भवन्ति इति । एताश्चतस्रो भाषाः सम्यगवबोध्याः, आसु च प्रथमचतुर्थ्यो वक्तव्ये । यतः सूत्रम् -
"चउण्हं खलु भासाणं, परिसंखाय पण्णवं ।
दुहं तु विणयं सिक्खे, दो न भासिज्ज सव्वसो ॥१॥ [ दशवै. ७।१ ]
जा य सच्चा अवत्तव्वा, सच्चामोसा य जा मुसा ।
जा य बुद्धेहिं नाइन्ना, न तं भासिज्ज पन्नवं ॥२॥ [ दशवै. ७।२ ]
असच्चमोसं सच्चं अणवज्जमकक्कसं ।
7
समुप्पेहमसंदिद्धं, गिरं भासिज्ज पन्नवं " ॥३॥ [ दशवै. ७।३ ]
इति भावितं द्वितीयं व्रतम् ॥ ११२ ॥ अथ तृतीयव्रतमाह -
सकलस्याप्यदत्तस्य, ग्रहणाद्विनिवर्त्तनम् । सर्वथा जीवनं यावत् तदस्तेयव्रतं मतम् ॥११३॥
'सकलस्यापि ' चतुर्विधस्य न त्वेकादिविधस्येत्यपिशब्दार्थः 'अदत्तस्य' अनिसृष्टस्य ग्रहणम् –आदानं तस्माद् यद् विनिवर्त्तनं - विरमणं तद् द्विविधंत्रिविधाद्यन्यतरभङ्गेनापि भवतीत्यत आह - ' सर्वथा' सर्वप्रकारेण त्रिविधंत्रिविधेनेत्यर्थः, तदित्वरकालमपि स्यादित्यत आह –‘जीवनं यावत्' प्राणधारणपर्यन्तं ' तदस्तेयं व्रतं ' मतं ' प्रज्ञप्तं जिनैरिति शेषः । अत्रायं भावः –स्वामिजीवतीर्थकरगुर्वदत्तभेदेनादत्तं चतुर्विधम्, तत्र स्वाम्यदत्तं तृणोपलकाष्ठादिकं तत्स्वामिनाऽदत्तं १, जीवादत्तं यत्स्वामिना दत्तमपि जीवेनादत्तं यथा प्रव्रज्यापरिणामविकलो मातापितृभ्यां पुत्रादिर्गुरुभ्यो दीयते २, तीर्थकरादत्तं यत्तीर्थकरैः प्रतिषिद्धमाधाकर्मादि गृह्यते ३, गुर्वदत्तं नाम स्वामिना दत्तमाधाकर्मादिदोषरहितं गुरूनननुज्ञाप्य यद् गृह्यते इति ४, चतुर्विधस्याप्यत्र परिहारः ॥११३॥
इत्युक्तं तृतीयं व्रतम् । अथ चतुर्थमाह -
दिव्यमानुषतैरश्चमैथुनेभ्यो निवर्त्तनम् ।
त्रिविधंत्रिविधेनैव, तद् ब्रह्मव्रतमीरितम् ॥११४॥
दिवि भवं दिव्यम्, तच्च वैक्रियशरीरसम्भवम्, मनुष्ये भवं मानुषं - मानुषदेहप्रभवम्, तिर्यक्षु भवं तैरश्चम् तिर्यग्योनिदेहसम्भवम्, दिव्यं च मानुषं च तैरश्चं च तानि च तानि ‘मैथुनानि’ च मिथुनकर्माणि तेभ्यो निवर्त्तनं - विरमणम्, तच्च देशतोऽपि
D:\new/d-3.pm5\3rd proof