________________
द्वितीयमहाव्रतस्वरूपम् -श्लो० ११२॥]
[६६९ तथा बहूनां जीवानां स्तोकानां च मृतानां शङ्खशङ्खनकादीनामेकत्र राशौ दृष्टे जीवराशिरयमिति भाषणं जीवमिश्रिता ४। एवं प्रभूतेषु मृतेषु स्तोकेषु च जीवत्सु अजीवराशिरिति वाक्यम् ५। तथा तस्मिन्नेव राशौ अकृतनिश्चये एतावन्तो जीवन्त एतावन्तश्च मृता इति अवधारणवाक्यं च जीवाजीवमिश्रिता ६। तथा मूलकादि अनन्तकायं तस्यैव सत्कैः परिपाण्डुपत्रैरन्येन वा केनचिद्वनस्पतिना मिश्रं विलोक्य सर्वोऽप्येषः अनन्तकाय इति वदतोऽनन्तमिश्रिता, एवं प्रत्येकमनन्तेन सह दृष्ट्वा सर्वोऽपि प्रत्येक इति वदतः प्रत्येकमिश्रिता ८। अद्धा-कालः, स चेह प्रस्तावात् दिवसो रात्रिर्वा गृह्यते, सा मिश्रिता यया साऽद्धामिश्रिता, यथा कश्चित् कञ्चन त्वरयन् दिवसेऽपि रात्रिर्जातेति वदति ९। तथा दिवसस्य रात्रेर्वा एकदेशोऽद्धाद्धा सा मिश्रिता यया साऽद्धाद्धामिश्रिता, यथा प्रथमपौरुष्यामेव त्वरयमाणः कञ्चन वक्ति -शीघ्रो भव, मध्याह्नो जात इति १०।
अथ चतुर्थभाषाया द्वादश भेदाः । यथा - "आमंतणि १ आणवणी २, जायणी ३ तह पुच्छणी अ ४ पन्नवणी ५ । पच्चक्खाणी ६ भासा, भासा इच्छाणुलोमा य ७" ॥१॥ [ दश.नि.२७६, प्रव.८९४] "अणभिग्गहिआ भासा ८, भासा य अभिग्गहंमि बोद्धव्वा ९।। संसयकरी अ१० भासा, वोअड११ अव्वोअडाचेव१२"॥२॥[ दश.नि.२७७, प्रव.८९५]
आमन्त्रणे हे देवदत्त ! इत्यादिरूपा, एषा हि प्रागुक्तभाषात्रयविलक्षणत्वान्न सत्या न मृषा नापि सत्यामृषा केवलं व्यवहारमात्रप्रवृत्तिहेतुरित्यसत्याऽमृषा, एवं भावना कार्या १। आज्ञापनी कार्ये परस्य प्रवर्त्तनम् , यथेदं कुर्विति २। याचनी देहीतिमार्गणम् ३। प्रच्छनी अविज्ञातस्य संदिग्धस्य वाऽर्थस्य परिज्ञानाय तद्विदः कथमेतदिति प्रच्छनम् ४। प्रज्ञापनी विनेयजनस्योपदेशदानम् , यथा प्राणिवधनिवृत्तेर्दीर्घायुरित्यादि ५। प्रत्याख्यानी याचमानस्य प्रतिषेधवचनम् ६। इच्छानुलोमा नाम कार्यं कर्तुमिच्छता केनचित्पृष्ट कश्चिदाह -करोति(तु) भवान् ममाप्येतदभिप्रेतमिति ७। अनभिगृहीता यतः प्रतिनियतार्थानवधारणम् , यथा बहुषु कार्येषु उपस्थितेषु कश्चित् कञ्चन पृच्छति -किमिदानीं करोमीति?, स प्राह –यत्प्रतिभासते तत्कुर्विति ८। अभिगृहीता प्रतिनियतार्थावधारणरूपा यथेदमिदानी कर्त्तव्यमिदं नेति, यद्वाऽनभिगृहीता याऽर्थमनभिगृह्योच्यते डित्थादिवत् , अभिगृहीता त्वर्थमभिगृह्य योज्यते घटादिवत् ९। संशयकरणी या एका वाक् अनेकार्थाभिधायितया परस्य संशयमुत्पादयति, यथा सैन्धवमानीयतामिति, सैन्धवशब्दस्य लवणपुरुषवाजिषु प्रवृत्तेः १०। व्याकृता या
D:\new/d-3.pm53rd proof