SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ ६६८] [धर्मसंग्रहः-तृतीयोऽधिकार: मध्यमामधिकृत्य ह्रस्वत्वमपि ६। तथा व्यवहारतो –लोकविवक्षातः सत्या व्यवहारसत्या, यथागिरिदह्यते, गलति भाजनम् , अनुदरा कन्या, अलोमिका एडकेत्यादि । इत्थं च साधोरपि व्यवहारापेक्षया जल्पतो व्यवहारसत्या भाषा भवतीतिभावः ७। तथा भावतो वर्णादिस्वरूपात् सत्या भावसत्या, यत्र यो भावो वर्णादिरुत्कटस्तेन सत्येत्यर्थः, यथा सत्यपि पञ्चवर्णसम्भवे शुक्लवर्णस्योत्कटत्वाच्छङ्खः शुक्ल इत्यादि ८। तथा योगः –सम्बन्धस्तस्मात् सत्या योगसत्या, यथा छत्रयोगात् कदाचिच्छत्राभावेऽपि छत्रयोगस्य सम्भवाच्छत्रीत्यादि ९। औपम्यम् -उपमा तेन सत्या औपम्यसत्या, यथा समुद्रवत् तटाकमिति १० अथ द्वितीयाया दश भेदाः । यथा - "कोहे १ माणे २ माया ३ लोभे ४, पिज्जे ५ तहेव दोसे अ६ । हासे ७ भए य ८ ऽक्खाइअ ९, उवघाए १० निस्सिआ दसहा" ॥१॥ [प्रज्ञा. सू. ११८६३, दश.नि.२७४, प्रव.८९२] निःसृताशब्दस्य प्रत्येकं योगात् क्रोधनिःसृता क्रोधान्निर्गतेत्यर्थः, क्रोधेन विसंवादबुद्ध्या जल्पतः सत्यमप्यसत्यमेव, यथा वा क्रोधाददासं दासं ब्रूत इत्यादि, एवं मानान्निःसृता अनीश्वरोऽपि ईश्वरोऽहमिति ब्रूते २। मायानि:सृता परवञ्चनाशयेन ३। लोभान्निसृता यथा स्वल्पमूल्यस्य बहुमूल्यतोक्तिः ४। प्रेमनिःसृता यथा दयिताया दासोऽस्मीति कथनम् ५। द्वेषान्निःसृता मत्सरिणां गुणवत्यपि निर्गुणोऽयमित्यादि ६। हास्यान्निःसृता प्रतीतैव ७/ भयान्निःसृता यथा चौरादिभयेऽसमञ्जसभाषणम् ८। आख्यायिकानिःसृता यथा कथास्वसम्भव्यभिधानम् ९। उपघातान्निःसृता चौरस्त्वमित्याद्यसभ्याख्यानमिति १०। अथ तृतीयाया दशभेदाः । यथा - "उप्पन्न १ विगय २ मीसग ३, जीव ४ अजीवे अ५ जीवअज्जीवे ६ । तह मीसिआअणंता७, परित्त ८ अद्धा य९अद्धद्धा १०"॥१॥[ दश.नि.२७५, प्रव.८९३] अत्र मिश्रिताशब्दस्य प्रत्येकं योगादुत्पन्नमिश्रिता इत्यादि द्रष्टव्यम् , ततश्च उत्पन्नमिश्रिताऽनुत्पन्नैः सह संख्यापूरणार्थं यया सा उत्पन्नमिश्रिता, एवमन्यत्रापि यथायोगं भाव्यम् , तत्रोत्पन्नमिश्रिता क्व?, यथा कस्मिन् ग्रामे न्यूनेष्वधिकेषु वा दारकेषु जातेषु दश दारका अत्राद्य जाता इत्यादि व्यवहारतः सत्यासत्या एव श्वस्ते शतं दास्यामीत्युक्त्वा पञ्चाशत्यपि दत्ते लोके मृषात्वादर्शनात् अनुत्पन्नांशे च मृषात्वव्यवहारात् १। एवं मरणकथा विगतमिश्रिता २ अकृतनिश्चये जातस्य मृतस्य च कृतपरिणामस्याभिधाने मिश्रकमिश्रिता उत्पन्नविगतमिश्रितेत्यर्थः, यथाऽद्य दश जाता मृताश्चेति ३। D:\new/d-3.pm53rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy